१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः

शान्तिदेवविरचितः बोधिचर्यावतारः।

॥ॐ नमो बुद्धाय॥

१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः।



1
सुगतान् ससुतान् सधर्मकायान्
प्रणिपत्यादरतोऽखिलांश्च वन्द्यान्।
सुगतात्मजसंवरावतारं
कथयिष्यामि यथागमं समासात्॥१॥

न हि किंचिदपूर्वमत्र वाच्यं
न च संग्रथनकौशलं ममास्ति।
अत एव न मे परार्थचिन्ता
स्वमनो वासयितुं कृतं मयेदम्॥२॥

मम तावदनेन याति वृद्धिं
कुशलं भावयितुं प्रसादवेगः।
अथ मत्समधातुरेव पश्ये-
दपरोऽप्येनमतोऽपि सार्थकोऽयम्॥३॥

क्षणसंपदियं सुदुर्लभा
प्रतिलब्धा पुरुषार्थसाधनी।
यदि नात्र विचिन्त्यते हितं
पुनरप्येष समागमः कुतः॥४॥

रात्रौ यथा मेघघनान्धकारे
विद्युत् क्षणं दर्शयति प्रकाशम्।
बुद्धानुभावेन तथा कदाचि-
ल्लोकस्य पुण्येषु मतिः क्षणं स्यात्॥५॥

तस्माच्छुभं दुर्बलमेव नित्यं
बलं तु पापस्य महत्सुघोरम्।
तज्जीयतेऽन्येन शुभेन केन
संबोधिचित्तं यदि नाम न स्यात्॥६॥

कल्पाननल्पान् प्रविचिन्तयद्भि-
र्दृष्टं मुनीन्द्रैर्हितमेतदेव।
यतः सुखेनैव सुखं प्रवृद्ध-
मुत्प्लावयत्यप्रमिताञ्जनौघान्॥७॥

भवदुःखशतानि तर्तुकामै-
रपि सत्त्वव्यसनानि हर्तुकामैः।
बहुसौख्यशतानि भोक्तुकामै-
र्न विमोच्यं हि सदैव बोधिचित्तम्॥८॥

भवचारकबन्धनो वराकः
सुगतानां सुत उच्यते क्षणेन।
सनरामरलोकवन्दनीयो
भवति स्मोदित एव बोधिचित्ते॥९॥

अशुचिप्रतिमामिमां गृहीत्वा
जिनरत्नप्रतिमां करोत्यनर्घाम्।
रसजातमतीव वेधनीयं
सुदृढं गृह्णत बोधिचित्तसंज्ञम्॥१०॥

सुपरीक्षितमप्रमेयधीभि-
र्बहुमूल्यं जगदेकसार्थवाहैः।
गतिपत्तनविप्रवासशीलाः
सुदृढं गृह्णत बोधिचित्तरत्नम्॥११॥

कदलीव फलं विहाय याति
क्षयमन्यत् कुशलं हि सर्वमेव।
सततं फलति क्षयं न याति
प्रसवत्येव तु बोधिचित्तवृक्षः॥१२॥

कृत्वापि पापानि सुदारुणानि
यदाश्रयादुत्तरति क्षणेन।
शूराश्रयेणेव महाभयानि
नाश्रीयते तत्कथमज्ञसत्त्वैः॥१३॥

युगान्तकालानलवन्महान्ति
पापानि यन्निर्दहति क्षणेन।
यस्यानुशंसानमितानुवाच
मैत्रेयनाथः सुधनाय धीमान्॥१४॥

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च॥१५॥

गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते।
तथा भेदोऽनयोर्ज्ञेयो याथासंख्येन पण्डितैः॥१६॥

बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत्।
न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः॥१७॥

यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे।
समाददाति तच्चित्तमनिवर्त्येन चेतसा॥१८॥

ततःप्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः॥१९॥

इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान्।
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः॥२०॥

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन्।
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः॥२१॥

किमुताप्रतिमं शूलमेकैकस्य जिहीर्षतः।
अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः॥२२॥

कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी।
देवतानामृषीणां वा ब्रह्मणां वा भविष्यति॥२३॥

तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः।
नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः॥२४॥

सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथम्।
यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते॥२५॥

जगदानन्दबीजस्य जगद्दुःखौषधस्य च।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयताम्॥२६॥

हिताशंसनमात्रेण बुद्धपूजा विशिष्यते।
किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात्॥२७॥

दुःखमेवाभिधावन्ति दुःखनिःसरणाशया।
सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत्॥२८॥

यस्तेषां सुखरङ्काणां पीडितानामनेकशः।
तृप्तिं सर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च॥२९॥

नाशयत्यपि संमोहं साधुस्तेन समः कुतः।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः॥३०॥

कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते।
अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यताम्॥३१॥

कतिपयजनसत्त्रदायकः
कुशलकृदित्यभिपूज्यते जनैः।
क्षणमशनकमात्रदानतः
सपरिभवं दिवसार्धयापनात्॥३२॥

किमु निरवधिसत्त्वसंख्यया
निरवधिकालमनुप्रयच्छतः।
गगनजनपरिक्षयाक्षयं
सकलमनोरथसंप्रपूरणम्॥३३॥

इति सत्त्रपतौ जिनस्य पुत्रे
कलुषं स्वे हृदये करोति यश्च।
कलुषोदयसंख्यया स कल्पान्
नरकेष्वावसतीति नाथ आह॥३४॥

अथ यस्य मनः प्रसादमेति
प्रसवेत्तस्य ततोऽधिकं फलम्।
महता हि बलेन पापकं
जिनपुत्रेषु शुभं त्वयत्नतः॥३५॥

तेषां शरीराणि नमस्करोमि
यत्रोदितं तद्वरचित्तरत्नम्।
यत्रापकारोऽपि सुखानुबन्धी
सुखाकरांस्तान् शरणं प्रयामि॥३६॥

इति बोधिचित्तानुशंसाविवरणं नाम प्रथमः परिच्छेदः॥


2
पापदेशना नाम द्वितीयः परिच्छेदः।

तच्चित्तरत्नग्रहणाय सम्यक्
पूजां करोम्येष तथागतानाम्।
सद्धर्मरत्नस्य च निर्मलस्य
बुद्धात्मजानां च गुणोदधीनाम्॥१॥

यावन्ति पुष्पाणि फलानि चैव
भैषज्यजातानि च यानि सन्ति।
रत्नानि यावन्ति च सन्ति लोके
जलानि च स्वच्छमनोरमाणि॥२॥

महीधरा रत्नमयास्तथान्ये
वनप्रदेशाश्च विवेकरम्याः।
लताः सपुष्पाभरणोज्ज्वलाश्च
द्रुमाश्च ये सत्फलनम्रशाखाः॥३॥

देवादिलोकेषु च गन्धधूपाः
कल्पद्रुमा रत्नमयाश्च वृक्षाः।
सरांसि चाम्भोरुहभूषणानि
हंसस्वनात्यन्तमनोहराणि॥४॥

अकृष्टजातानि च शस्यजाता-
न्यन्यानि वा पूज्यविभूषणानि।
आकाशधातुप्रसरावधीनि
सर्वाण्यपीमान्यपरिग्रहाणि॥५॥

आदाय बुद्ध्या मुनिपुंगवेभ्यो
निर्यातयाम्येष सपुत्रकेभ्यः।
गृह्णन्तु तन्मे वरदक्षिणीया
महाकृपा मामनुकम्पमानाः॥६॥

अपुण्यवानस्मि महादरिद्रः
पूजार्थमन्यन्मम नास्ति किंचित्।
अतो ममार्थाय परार्थचित्ता
गृह्णन्तु नाथा इदमात्मशक्त्या॥७॥

ददामि चात्मानमहं जिनेभ्यः
सर्वेण सर्वं च तदात्मजेभ्यः।
परिग्रहं मे कुरुताग्रसत्त्वा
युष्मासु दासत्वमुपैमि भक्त्या॥८॥

परिग्रहेणास्मि भवत्कृतेन
निर्भीर्भवे सत्त्वहितं करोमि।
पूर्वं च पापं समतिक्रमामि
नान्यच्च पापं प्रकरोमि भूयः॥९॥

रत्नोज्ज्वलस्तम्भमनोरमेषु
मुक्तामयोद्भासिवितानकेषु।
स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु
सुगन्धिषु स्नानगृहेषु तेषु॥१०॥

मनोज्ञगन्धोदकपुष्पपूर्णैः
कुम्भैर्महारत्नमयैरनेकैः।
स्नानं करोम्येष तथागतानां
तदात्मजानां च सगीतिवाद्यम्॥११॥

प्रधूपितैर्घौतमलैरतुल्यै-
र्वस्त्रैश्च तेषां तनुमुन्मृषामि।
ततः सुरक्तानि सुधूपितानि
ददामि तेभ्यो वरचीवराणि॥१२॥

दिव्यैर्मृदुश्लक्ष्णविचित्रशोभै-
र्वस्त्रैरलंकारवरैश्च तैस्तैः।
समन्तभद्राजितमञ्जुघोष-
लोकेश्वरादीनपि मण्डयामि॥१३॥

सर्वत्रिसाहस्रविसारिगन्धै-
र्गन्धोत्तमैस्ताननुलेपयामि।
सूत्तप्तसून्मृष्टसुधौतहेम-
प्रभोज्ज्वलान् सर्वमुनीन्द्रकायान्॥१४॥

मान्दारवेन्दीवरमल्लिकाद्यैः
सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः।
अभ्यर्चयाभ्यर्च्यतमान् मुनीन्द्रान्
स्रग्भिश्च संस्थानमनोरमाभिः॥१५॥

स्फीतस्फुरद्गन्धमनोरमैश्च
तान् धूपमेघैरुपधूपयामि।
भोज्यैश्च खाद्यैर्विविधैश्च पेयै-
स्तेभ्यो निवेद्यं च निवेदयामि॥१६॥

रत्नप्रदीपांश्च निवेदयामि
सुवर्णपद्मेषु निविष्टपङ्क्तीन्।
गन्धोपलिप्तेषु च कुट्टिमेषु
किरामि पुष्पप्रकरान् मनोज्ञान्॥१७॥

प्रलम्बमुक्तामणिहारशोभा-
नाभास्वरान् दिङ्मुखमण्डनांस्तान्।
विमानमेघान् स्तुतिगीतरम्यान्
मैत्रीमयेभ्योऽपि निवेदयामि॥ १८॥

सुवर्णदण्डैः कमनीयरूपैः
संसक्तमुक्तानि समुच्छ्रितानि।
प्रधारयाम्येष महामुनीनां
रत्नातपत्राण्यतिशोभनानि॥१९॥

अतः परं प्रतिष्ठन्तां पूजामेघा मनोरमाः।
तूर्यसंगीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः॥२०॥

सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च।
पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम्॥२१॥

मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान्।
तथा तथागतान्नाथान् सपुत्रान् पूजयाम्यहम्॥२२॥

स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन्।
स्तुतिसंगीतिमेघाश्च संभवन्त्वेष्वनन्यथा॥२३॥

सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम्।
सर्वत्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान्॥२४॥

सर्वचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयांस्तथा।
नमः करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा॥२५॥

बुद्धं गच्छामि शरणं यावदा बोधिमण्डतः।
धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा॥२६॥

विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान्।
महाकारुणिकांश्चापि बोधिसत्त्वान् कृताञ्जलिः॥२७॥

अनादिमति संसारे जन्मन्यत्रैव वा पुनः।
यन्मया पशुना पापं कृतं कारितमेव वा॥२८॥

यच्चानुमोदितं किंचिदात्मघाताय मोहतः।
तदत्ययं देशयामि पश्चात्तापेन तापितः॥२९॥

रत्नत्रयेऽपकारो यो मातपितृषु वा मया।
गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः॥३०॥

अनेकदोषदुष्टेन मया पापेन नायकाः।
यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम्॥३१॥

कथं च निःसराम्यस्मात् परित्रायत सत्वरम्।
मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति॥३३॥

कृताकृतापरीक्षोऽयं मृत्युर्विश्रम्भघातकः।
स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः॥३४॥

प्रियाप्रियनिमित्तेन पापं कृतमनेकधा।
सर्वमुत्सृज्य गन्तव्यमिति न ज्ञातमीदृशम्॥३५॥

अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति।
अहं च न भविष्यामि सर्वं च न भविष्यति॥३६॥

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते।
स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते॥३७॥

इहैव तिष्ठतस्तावद्गता नैके प्रियाप्रियाः।
तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः॥३८॥

एवमागन्तुकोऽस्मीति न मया प्रत्यवेक्षितम्।
मोहानुनयविद्वेषैः कृतं पापमनेकधा॥३९॥

रात्रिंदिवमविश्राममायुषो वर्धते व्ययः।
आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम्॥४०॥

इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता।
मयैवेकेन सोढव्या मर्मच्छेदादिवेदना॥४१॥

यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत्।
पुण्यमेकं तदा त्राणं मया तच्च न सेवितम्॥४२॥

अनित्यजीवितासङ्गादिदं भयमजानता।
प्रमत्तेन मया नाथा बहु पापमुपार्जितम्॥४३॥

अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति।
पिपासितो दीनदृष्टिरन्यदेवेक्षते जगत्॥४४॥

किं पुनर्भैरवाकारैर्यमदूतैरधिष्ठितः।
महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः॥४५॥

कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशम्।
को मे महाभयादस्मात्साधुस्त्राणं भविष्यति॥४६॥

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः।
तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये॥४७॥

अद्यैव शरणं यामि जगन्नाथान् महाबलान्।
जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान्॥४८॥

तैश्चाप्यधिगतं धर्मं संसारभयनाशनम्।
शरणं यामि भावेन बोधिसत्त्वगणं तथा॥४९॥

समन्तभद्रायात्मानं ददामि भयविह्वलः।
पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना॥५०॥

तं चावलोकितं नाथं कृपाव्याकुलचारिणम्।
विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम्॥५१॥

आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः।
सर्वान् महाकृपांश्चापि त्राणान्वेषी विरौम्यहम्॥५२॥

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशम्।
यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम्॥५३॥

अतीत्य युष्मद्वचनं सांप्रतं भयदर्शनात्।
शरणं यामि वो भीतो भयं नाशयत द्रुतम्॥५४॥

इत्वरव्याधिभीतोऽपि वैद्यवाक्यं न लङ्घयेत्।
किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः॥५५॥

एकेनापि यतः सर्वे जम्बुद्वीपगता नराः।
नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते॥५६॥

तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः।
वाक्यमुल्लङ्घयामीति धिङ् मामत्यन्तमोहितम्॥५७॥

अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि।
किमु योजनसाहस्रे प्रपाते दीर्घकालिके॥५८॥

अद्यैव मरणं नैति न युक्ता मे सुखासिका।
अवश्यमेति सा वेला न भविष्याम्यहं यदा॥५९॥

अभयं केन मे दत्तं निःसरिष्यामि वा कथम्।
अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः॥६०॥

पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितम्।
येषु मेऽभिनिविष्टेन गुरूणां लङ्घितं वचः॥६१॥

जीवलोकमिमं त्यक्त्वा बन्धून् परिचितांस्तथा।
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः॥६२॥

इयमेव तु मे चिन्ता युक्ता रात्रिंदिवं तदा।
अशुभान्नियतं दुःखं निःसरेयं ततः कथम्॥६३॥

मया बालेन मूढेन यत्किंचित्पापमाचितम्।
प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च॥६४॥

तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥६५॥

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः।
न भद्रकमिदं नाथा न कर्तव्यं पुनर्मया॥६६॥

इति पापदेशना नाम द्वितीयः परिच्छेदः॥


3
बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः।

अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम्।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः॥१॥

संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम्।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्॥२॥

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्॥३॥

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्॥४॥

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः।
कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत्॥५॥

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम्।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्॥६॥

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च।
तदुपस्थायकश्चैव यावद्रोगापुनर्भवः॥७॥

क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः।
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम्॥८॥

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः।
नानोपकरणाकारैरुपतिष्ठेयमग्रतः॥९॥

आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम्।
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये॥१०॥

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः।
त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयताम्॥११॥

यश्चासुखीकृतश्चात्मा मयायं सर्वदेहिनाम्।
घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः॥१२॥

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च।
दत्तस्तेभ्यो मया कायश्चिन्तया किं ममानया॥१३॥

कारयन्तु च कर्माणि यानि तेषां सुखावहम्।
अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन॥१४॥

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत्।
तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये॥१५॥

अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः।
उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः॥१६॥

अनाथानामहं नाथः सार्थवाहश्च यायिनाम्।
पारेप्सूनां च नौभूतः सेतुः संक्रम एव च॥१७॥

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम्।
दासार्थिनामहं दासो भवेयं सर्वदेहिनाम्॥१८॥

चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः।
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम्॥१९॥

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम्।
सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा॥२०॥

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा।
भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः॥२१॥

यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः।
ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः॥२२॥

तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते।
तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमम्॥२३॥

एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः।
पुनः पृष्टस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत्॥२४॥

अद्य मे सफलं जन्म सुलब्धो मानुषो भवः।
अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि सांप्रतम्॥२५॥

तथाधुना मया कार्यं स्वकुलोचितकारिणाम्।
निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा॥२६॥

अन्धः संकारकूटेभ्यो यथा रत्नमवाप्नुयात्।
तथा कथंचिदप्येतद् बोधिचित्तं ममोदितम्॥२७॥

जगन्मृत्युविनाशाय जातमेतद्रसायनम्।
जगद्दारिद्र्यशमनं निधानमिदमक्षयम्॥२८॥

जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमम्।
भवाध्वभ्रमणश्रान्तजगद्विश्रामपादपः॥२९॥

दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनाम्।
जगत्क्लेशोपशमन उदितश्चित्तचन्द्रमाः॥३०॥

जगदज्ञानतिमिरप्रोत्सारणमहारविः।
सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम्॥३१॥

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः।
सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम्॥३२॥

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा।
पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः॥३३॥

इति बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः॥


4
बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः
एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः।
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः॥१॥

सहसा यत्समारब्धं सम्यग् यदविचारितम्।
तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते॥२॥

विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः।
मयापि च यथाशक्ति तत्र किं परिलम्ब्यते॥३॥

यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा।
एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति॥४॥

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः।
स प्रेतो भवतीत्युक्तमल्पमात्रेऽपि वस्तुनि॥५॥

किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः।
जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति॥६॥

वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिम्।
यद्बोधिचित्तत्यागेऽपि मोचयत्येवं तां नरान्॥७॥

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी।
यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत्॥८॥

योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति।
तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः॥९॥

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत्।
अशेषाकाशपर्यन्तवासिनां किमु देहिनाम्॥१०॥

एवमापत्तिबलतो बोधिचित्तबलेन च।
दोलायमानः संसारे भूमिप्राप्तौ चिरायते॥११॥

तस्माद्यथाप्रतिज्ञातं साधनीयं मयादरात्।
नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः॥१२॥

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः।
नैषामहं स्वदोषेण चिकित्सागोचरं गतः॥१३॥

अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः।
दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम्॥१४॥

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव च।
कुशलाभ्यासयोग्यत्वमेवं लप्स्येऽतिदुर्लभम्॥१५॥

आरोग्यं दिवसं चेदं सभक्तं निरुपद्रवम्।
आयुःक्षणं विसंवादि कायोपाचितकोपमः॥१६॥

न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः।
अलभ्यमाने मानुष्ये पापमेव कुतः शुभम्॥१७॥

यदा कुशलयोग्योऽपि कुशलं न करोम्यहम्।
अपायदुःखैः संमूढः किं करिष्याम्यहं तदा॥१८॥

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः।
हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि॥१९॥

अत एवाह भगवान्-मानुष्यमतिदुर्लभम्।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्॥२०॥

एकक्षणकृतात् पापादवीचौ कल्पमास्यते।
अनादिकालोपचितात् पापात् का सुगतौ कथा॥२१॥

न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते।
तस्मात्तद्वेदयन्नेव पापमन्यत् प्रसूयते॥२२॥

नातः परा वञ्चनास्ति न च मोहोऽस्त्यतः परः।
यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया॥२३॥

यदि चैवं विमृष्यामि पुनः सीदामि मोहितः।
शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः॥२४॥

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः।
पश्चात्तापानलश्चित्तं चिरं धक्ष्यत्यशिक्षितम्॥२५॥

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभाम्।
जानन्नपि च नीयेऽहं तानेव नरकान् पुनः॥२६॥

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः।
न जाने केन मुह्यामि कोऽत्रान्तर्मम तिष्ठति॥२७॥

हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः।
न शूरा न च ते प्राज्ञाः कथं दासीकृतोऽस्मि तैः॥२८॥

मच्चित्तावस्थिता एव घ्नन्ति मामेव सुस्थिताः।
तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम्॥२९॥

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः।
तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः॥३०॥

मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते।
क्षणात् क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः॥३१॥

न हि सर्वान्यशत्रूणां दीर्घमायुरपीदृशम्।
अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम्॥३२॥

सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः।
सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः॥३३॥

इति संततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु।
हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत्॥३४॥

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः।
मतिवेश्मनि लोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम॥३५॥

तस्मान्न तावदहमत्र धुरं क्षिपामि
यावन्न शत्रव इमे निहताः समक्षम्।
स्वल्पेऽपि तावदपकारिणि बद्धरोषा
मानोन्नतास्तमनिहत्य न यान्ति निद्राम्॥३६॥

प्रकृतिमरणदुःखितान्धकारान्। रणशिरसि प्रसभं निहन्तुमुग्राः।
अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा॥३७॥

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य।
भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै॥३८॥

अकारणेनैव रिपुक्षतानि गात्रेष्वलंकारवदुद्वहन्ति।
महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि॥३९॥

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः।
शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहेऽहम्॥४०॥

दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे।
प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः॥४१॥

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा।
अनिवर्ती भविष्यामि तस्मात्क्लेशवधे सदा॥४२॥

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही।
अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः॥४३॥

गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे।
न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम्॥४४॥

निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात्।
यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु॥४५॥

क्वासौ यायान्मन्मनःस्थो निरस्तः
स्थित्वा यस्मिन् मद्वधार्थं यतेत।
नोद्योगो मे केवलं मन्दबुद्धेः
क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः॥४६॥

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता
नातोऽन्यत्र कुह स्थिताः पुनरमी मथ्नन्ति कृत्स्नं जगत्।
मायैवेयमतो विमुञ्च हृदयं त्रासं भजस्वोद्यमं
प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे॥४७॥

एवं विनिश्चित्य करोमि यत्नं
यथोक्तशिक्षाप्रतिपत्तिहेतोः।
वैद्योपदेशाच्चलतः कुतोऽस्ति
भैषज्यसाध्यस्य निरामयत्वम्॥४८॥

इति बोधिचित्ताप्रमादश्चतुर्थः परिच्छेदः॥


5
संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः।

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता॥१॥

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम्।
करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः॥२॥

बद्धश्चेच्चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः।
भयमस्तंगतं सर्वं कृत्स्नं कल्याणमागतम्॥३॥

व्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा॥४॥

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात्।
चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च॥५॥

यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च।
चित्तादेव भवन्तीति कथितं तत्त्ववादिना॥६॥

शस्त्राणि केन नरके घटितानि प्रयत्नतः।
तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः॥७॥

पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः।
तस्मान्न कश्चित् त्रैलोक्ये चित्तादन्यो भयानकः॥८॥

अदरिद्रं जगत्कृत्वा दानपारमिता यदि।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम्॥९॥

फलेन सह सर्वस्वत्यागचित्ताज्जनेऽखिले।
दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु॥१०॥

मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान्।
लब्धे विरतिचित्ते तु शीलपारमिता मता॥११॥

कियतो मारयिष्यामि दुर्जनान् गगनोपमान्।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः॥१२॥

भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी॥१३॥

बाह्या भावा मया तद्वच्छक्या वारयितुं न हि।
स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः॥१४॥

सहापि वाक्शरीराभ्यां मन्दवृत्तेर्न तत्फलम्।
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम्॥१५॥

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि।
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित्॥१६॥

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे।
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम्॥१७॥

तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम्।
चित्तरक्षाव्रतं मुक्त्त्वा बहुभिः किं मम व्रतैः॥१८॥

यथा चपलमध्यस्थो रक्षति व्रणमादरात्।
एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा॥१९॥

व्रणदुःखलवाद्भीतो रक्षामि व्रणमादरात्।
संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम्॥२०॥

अनेन हि विहारेण विहरन् दुर्जनेष्वपि।
प्रमदाजनमध्येऽपि यतिर्धीरो न खण्ड्यते॥२१॥

लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम्।
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन॥२२॥

चित्तं रक्षितुकामानां मयैष क्रियतेऽञ्जलिः।
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत॥२३॥

व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु।
तथाभ्यां विकलं चित्तं न क्षमं सर्वकर्मसु॥२४॥

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम्।
सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते॥२५॥

अनेके श्रुतवन्तोऽपि श्राद्धा यत्नपरा अपि।
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः॥२६॥

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम्॥२७॥

क्लेशतस्करसंघोऽयमवतारगवेषकः।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम्॥२८॥

तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन।
गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम्॥२९॥

उपाध्यायानुशासन्या भीत्याप्यादरकारिणाम्।
धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः॥३०॥

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः।
सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः॥३१॥

इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः।
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः॥३२॥

संप्रजन्यं तदायाति न च यात्यागतं पुनः।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते॥३३॥

पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम्।
निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा॥३४॥

निष्फला नेत्रविक्षेपा न कर्तव्याः कदाचन।
निध्यायन्तीव सततं कार्या दृष्टिरधोगता॥३५॥

दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन।
आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत्॥३६॥

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम्।
दिशो विश्रम्य वीक्षेत परावृत्यैव पृष्ठतः॥३७॥

सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च।
एवं सर्वास्ववस्थासु कार्यं बुद्ध्‍वा समाचरेत्॥३८॥

कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः।
कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा॥३९॥

निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा।
धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते॥४०॥

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः।
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा॥४१॥

भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम्।
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम्॥४२॥

यद् बुद्ध्‍वा कर्तुमारब्धं ततोऽन्यन्न विचिन्तयेत्।
तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना॥४३॥

एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत्।
असंप्रजन्यक्लेशोऽपि वृद्धिं चैवं गमिष्यति॥४४॥

नानाविधप्रलापेषु वर्तमानेष्वनेकधा।
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम्॥४५॥

मृन्मर्दनतृणच्छेदरेखाद्यफलमागतम्।
स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत्॥४६॥

यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत्।
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत्॥४७॥

अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः।
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा॥४८॥

उद्धतं सोपहासं वा यदा मानमदान्वितम्।
सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत्॥४९॥

यदात्मोत्कर्षणाभासं परपंसनमेव वा।
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा॥५०॥

लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः।
उपस्थानार्थे मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥५१॥

परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा।
वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥५२॥

असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा।
स्वपक्षाभिनिविष्टं च तस्मात्तिष्ठामि काष्ठवत्॥५३॥

एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः।
निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा॥५४॥

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम्।
सलज्जं सभयं शान्तं पराराधनतत्परम्॥५५॥

परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम्।
क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम्॥५६॥

आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु।
निर्माणमिव निर्मानं धारयाम्येष मानसम्॥५७॥

चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः।
धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत्॥५८॥

गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः।
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम्॥५९॥

रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम्।
त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः॥६०॥

न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम्।
अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम्॥६१॥

इमं चर्मपुटं तावत्स्वबुद्ध्यैव पृथक्कुरु।
अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय॥६२॥

अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः।
किमत्र सारमस्तीति स्वयमेव विचारय॥६३॥

एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते।
अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि॥६४॥

न खादितव्यमशुचि त्वया पेयं न शोणितम्।
नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि॥६५॥

युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम्।
कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम्॥६६॥

एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः।
कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि॥६७॥

न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते।
कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम्॥६८॥

दत्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनोऽधुना।
न हि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते॥६९॥

काये नौबुद्धिमाधाय गत्यागमननिश्रयात्॥
यथाकामंगमं कायं कुरु सत्त्वार्थसिद्धये॥७०॥

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत्।
त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहृत्॥७१॥

सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत्।
नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा॥७२॥

बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन्।
प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत्॥७३॥

परचोदनदक्षाणामनधीष्टोपकारिणाम्।
प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत्॥७४॥

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत्।
पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत्॥७५॥

परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः।
स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम्॥७६॥

सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा।
भोक्ष्ये तुष्टिमुखं तस्मात्परश्रमकृतैर्गुणैः॥७७॥

न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम्।
अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च॥७८॥

विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम्।
श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत्॥७९॥

ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव।
एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति॥८०॥

सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च।
गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम्॥८१॥

दक्ष उत्थानसंपन्नः स्वयंकारी सदा भवेत्।
नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु॥८२॥

उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः।
नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः॥८३॥

एवं बुद्ध्‍वा परार्थेषु भवेत्सततमुत्थितः।
निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः॥८४॥

विनिपातगतानाथव्रतस्थान् संविभज्य च।
भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत्॥८५॥

सद्धर्मसेवकं कायमितरार्थं न पीडयेत्।
एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत्॥८६॥

त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये।
तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते॥८७॥

धर्मं निर्गौरवे स्वस्थे न शिरोवेष्टिते वदेत्।
सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके॥८८॥

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना।
हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत्॥८९॥

नोदारधर्मपात्रं च हीने धर्मे नियोजयेत्।
न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत्॥९०॥

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम्।
नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम्॥९१॥

मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम्।
प्रलम्बपादं नासीत न बाहू मर्दयेत्समम्॥९२॥

नैकयान्यस्त्रिया कुर्याद्यानं शयनमासनम्।
लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत्॥९३॥

नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम्।
समस्तेनैव हस्तेन मार्गमप्येवमादिशेत्॥९४॥

न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे।
अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः॥ ९५॥

नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा।
संप्रजानंल्लघूत्थानः प्रागवश्यं नियोगतः॥ ९६॥

आचारो बोधिसत्त्वानामप्रमेय उदाहृतः।
चित्तशोधनमाचारं नियतं तावदाचरेत्॥ ९७॥

रात्रिंदिवं च त्रिस्कन्धं त्रिष्कालं च प्रवर्तयेत्।
शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात्॥ ९८॥

या अवस्थाः प्रपद्येत स्वयं परवशोऽपि वा।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः॥ ९९॥

न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः।
न तदस्ति न यत्पुण्यमेवं विहरतः सतः॥ १००॥

पारंपर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत्।
सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत्॥ १०१॥

सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत्।
बोधिसत्त्वव्रतधरं महायानार्थकोविदम्॥ १०२॥

श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम्।
एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात्॥ १०३॥

शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत्।
आकाशगर्भसूत्रे च मूलापत्तीर्निरूपयेत्॥ १०४॥

शिक्षासमुच्चयोऽवश्यं द्रष्टव्यश्च पुनः पुनः।
विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः॥ १०५॥

संक्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम्।
आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः॥ १०६॥

यतो निवार्यते यत्र यदेव च नियुज्यते।
तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत्॥ १०७॥

एतदेव समासेन संप्रजन्यस्य लक्षणम्।
यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः॥ १०८॥

कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत्।
चिकित्सापाठमात्रेण रोगिणः किं भविष्यति॥ १०९॥

इति संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः॥


6
क्षान्तिपारमिता नाम षष्ठः परिच्छेदः।

सर्वमेतत्सुचरितं दानं सुगतपूजनम्।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत्॥ १॥

न च द्वेषसमं पापं न च क्षान्तिसमं तपः।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥ २॥

मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते॥ ३॥

पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः।
तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम्॥ ४॥

सुहृदोऽप्युद्विजन्तेऽस्माद् ददाति न च सेव्यते।
संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः॥ ५॥

एवमादीनि दुःखानि करोतीत्यरिसंज्ञया।
यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च॥ ६॥

अनिष्टकरणाज्जातमिष्टस्य च विघातनात्।
दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम्॥ ७॥

तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः।
यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः॥ ८॥

अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया।
दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते॥ ९॥

यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम्।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम्॥ १०॥

दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम्।
प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात्॥ ११॥

कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः।
दुःखेनैव च निःसारः चेतस्तस्माद् दृढीभव॥ १२॥

दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम्।
वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः॥ १३॥

न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम्।
तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा॥ १४॥

उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम्।
महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि॥ १५॥

शीतोष्णवृष्टिवाताध्वव्याधिबन्धनताडनैः।
सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा॥ १६॥

केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः।
परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत्॥ १७॥

तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम्।
दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्व्‍यथाम्॥ १८॥

दुःखेऽपि नैव चित्तस्य प्रसादं क्षोभयेद् बुधः।
संग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा॥ १९॥

उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन्।
ते ते विजयिनः शूराः शेषास्तु मृतमारकाः॥ २०॥

गुणोऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः।
संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा॥ २१॥

पित्तादिषु न मे कोपो महादुःखकरेष्वपि।
सचेतनेषु किं कोपः तेऽपि प्रत्ययकोपिताः॥ २२॥

अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा।
अनिष्यमाणोऽपि बलात्क्रोध उत्पद्यते तथा॥ २३॥

कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः।
उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च॥ २४॥

ये केचिदपराधाश्च पापानि विविधानि च।
सर्वं तत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते॥ २५॥

न च प्रत्ययसामग्र्या जनयामीति चेतना।
न चापि जनितस्यास्ति जनितोऽस्मीति चेतना॥ २६॥

यत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम्।
तदेव हि भवाभीति न संचिन्त्योपजायते॥ २७॥

अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा।
विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते॥ २८॥

नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः।
प्रत्ययान्तरसङ्गेऽपि निर्विकारस्य का क्रिया॥ २९॥

यः पूर्ववत् क्रियाकाले क्रियायास्तेन किं कृतम्।
तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम्॥ ३०॥

एवं परवशं सर्वं यद्वशं सोऽपि चावशः।
निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते॥ ३१॥

वारणापि न युक्तैवं कः किं वारयतीति चेत्।
युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता॥ ३२॥

तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम्।
ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत्॥ ३३॥

यदि तु स्वेच्छया सिद्धिः सर्वेषामेव देहिनाम्।
न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति॥ ३४॥

प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः।
भक्तच्छेदादिभिः कोपाद्दुरापस्त्र्यादिलिप्सया॥ ३५॥

उद्बन्धनप्रपातैश्च विषापथ्यादिभक्षणैः।
निघ्नन्ति केचिदात्मानपुण्याचरणेन च॥ ३६॥

यदैवं क्लेशवश्यवाद् घ्नन्त्यात्मानमपि प्रियम्।
तदैषां परकायेषु परिहारः कथं भवेत्॥ ३७॥

क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने।
न केवलं दया नास्ति क्रोध उत्पद्यते कथम्॥ ३८॥

यदि स्वभावो बालानां परोपद्रवकारिता।
तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके॥ ३९॥

अथ दोषोऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः।
तथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे॥ ४०॥

मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते।
द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम्॥ ४१॥

मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता।
तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः॥ ४२॥

तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम्।
तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते॥ ४३॥

गण्डोऽयं प्रतिमाकारो गृहीतो घट्टनासहः।
तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते॥ ४४॥

दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः।
स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते॥ ४५॥

असिपत्रवनं यद्वद्यथा नारकपक्षिणः।
मत्कर्मजनिता एव तथेदं कुत्र कुप्यते॥ ४६॥

मत्कर्मचोदिता एव जाता मय्यपकारिणः।
येन यास्यन्ति नरकान्मयैवामी हता ननु॥ ४७॥

एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु।
मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान्॥ ४८॥

अहमेवापकार्येषां ममैते चोपकारिणः।
कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि॥४९॥

भवेन्ममाशयगुणो न यामि नरकान् यदि।
एषामत्र किमायातं यद्यात्मा रक्षितो मया॥ ५०॥

अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः।
हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः॥ ५१॥

मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित्।
शरीराभिनिवेशात्तु चित्तं दुःखेन बाध्यते॥५२॥

न्यक्कारः परुषं वाक्यमयशश्चेत्ययं गणः।
कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि॥ ५३॥

मय्यप्रसादो योऽन्येषां स मां किं भक्षयिष्यति।
इह जन्मान्तरे वापि येनासौ मेऽनभीप्सितः॥ ५४॥

लाभान्तरायकारित्वाद् यद्यसौ मेऽनभीप्सितः।
नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम्॥ ५५॥

वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम्।
यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव मे॥ ५६॥

स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते।
मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते॥ ५७॥

ननु (नूनं ?) निवर्तते सौख्यं द्वयोरपि विबुद्धयोः।
सैवोपमा मृत्युकाले चिरजीव्यल्पजीविनोः॥ ५८॥

लब्ध्वापि च बहूंल्लाभान् चिरं भुक्त्वा सुखान्यपि।
रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा॥ ५९॥

पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत्।
पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु॥ ६०॥

यदर्थमेव जीवामि तदेव यदि नश्यति।
किं तेन जीवितेनापि केवलाशुभकारिणा॥ ६१॥

अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत्।
परायशस्करेऽप्येवं कोपस्ते किं न जायते॥ ६२॥

परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा।
क्लेशात्पादपरायत्ते क्षमा नावर्णवादिनि॥ ६३॥

प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च।
न युज्यते मम द्वेषो बुद्धादीनां न हि व्यथा॥ ६४॥

गुरुसालोहितादीनां प्रियाणां चापकारिषु।
पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत्॥ ६५॥

चेतनाचेतनकृता देहिनां नियता व्यथा।
सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः॥ ६६॥

मोहादेकेऽपराध्यन्ति कुप्यन्त्यन्ये विमोहिताः।
ब्रूमः कमेषु निर्दोषं कं वा ब्रूमोऽपराधिनम्॥ ६७॥

कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः।
सर्वे कर्मपरायत्ताः कोऽहमत्रान्यथाकृतौ॥ ६८॥

एवं बुद्ध्‍वा तु पुण्येषु तथा यत्नं करोम्यहम्।
येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम्॥ ६९॥

दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम्।
तृणादौ यत्र सज्येत तदाकृष्यापनीयते॥ ७०॥

एवं चित्तं यदासङ्गाद्दह्यते द्वेषवह्निना।
तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया॥ ७१॥

मारणीयः करं छित्त्वा मुक्तश्चेत्किमभद्रकम्।
मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम्॥ ७२॥

यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते।
तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते॥ ७३॥

कोपार्थमेवमेवाहं नरकेषु सहस्रशः।
कारितोऽस्मि न चात्मार्थः परार्थो वा कृतो मया॥ ७४॥

न चेदं तादृशं दुःखं महार्थं च करिष्यति।
जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते॥ ७५॥

यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम्।
मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि॥ ७६॥

इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम्।
न वारितं च गुणिभिः परावर्जनमुत्तमम्॥ ७७॥

तस्यैव सुखमित्येवं तवेदं यदि न प्रियम्।
भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत्॥ ७८॥

स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि।
कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि॥ ७९॥

बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया।
स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि॥ ८०॥

त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किल वाञ्छसि।
सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे॥ ८१॥

पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः।
कुटुम्बजीविनं लब्ध्वा न हृष्यसि प्रकुप्यसि॥ ८२॥

स किं नेच्छसि सत्त्वानां यस्तेषां बोधिमिच्छति।
बोधिचित्तं कुतस्तस्य योऽन्यसंपदि कुप्यति॥ ८६॥

यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे।
सर्वथापि न तत्तेऽस्ति दत्तादत्तेन तेन किम्॥ ८४॥

किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ।
लभमानो न गृह्णातु वद केन न कुप्यसि॥ ८५॥

न केवलं त्वमात्मानं कृतपापं न शोचसि।
कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि॥ ८६॥

जातं चेदप्रियं शत्रोस्त्वत्तुष्ट्या किं पुनर्भवेत्।
त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति॥ ८७॥

अथ त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव।
अथाप्यर्थो भवेदेवमनर्थः को न्वतः परः॥ ८८॥

एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम्।
यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु॥ ८९॥

स्तुतिर्यशोऽथ सत्कारो न पुण्याय न चायुषे।
न बलार्थं न चारोग्ये न च कायसुखाय मे॥ ९०॥

एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः।
मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता॥ ९१॥

यशोर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि।
किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम्॥ ९२॥

यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः।
तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे॥ ९३॥

शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः।
परः किल मयि प्रीत इत्येतत्प्रीतिकारणम्॥ ९४॥

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया।
तस्यैव तत्प्रीतिसुखं भागो नाल्पोऽपि मे ततः॥ ९५॥

तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत्।
कस्मादन्यप्रसादेन सुखितेषु न मे सुखम्॥ ९६॥

तस्मादहं स्तुतोऽस्मीति प्रीतिरात्मनि जायते।
तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम्॥ ९७॥

स्तुत्यादयश्च मे क्षेमं संवेगं नाशयन्त्यमी।
गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते॥ ९८॥

तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः।
अपायपातरक्षार्थं प्रवृत्ता ननु ते मम॥ ९९॥

मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम्।
ये मोचयन्ति मां बन्धाद्द्‍वेषस्तेषु कथं मम॥ १००॥

दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः।
बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम॥ १०१॥

पुण्यविघ्नः कृतोऽनेनेत्यत्र कोपो न युज्यते।
क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम्॥ १०२॥

अथाहमात्मदोषेण न करोमि क्षमामिह।
मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते॥ १०३॥

यो हि येन विना नास्ति यस्मिंश्च सति विद्यते।
स एव कारणं तस्य स कथं विघ्न उच्यते॥ १०४॥

न हि कालोपपन्नेन दानविघ्नः कृतोऽर्थिना।
न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते॥ १०५॥

सुलभा याचका लोके दुर्लभास्त्वपकारिणः।
यतो मेऽनपराधस्य न कश्चिदपराध्यति॥ १०६॥

अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः।
बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम॥ १०७॥

मया चानेन चोपात्तं तस्मादेतत् क्षमाफलम्।
एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः॥ १०८॥

क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः।
सिद्धिहेतुरचित्तोऽपि सद्धर्मः पूज्यते कथम्॥ १०९॥

अपकाराशयोऽस्येति शत्रुर्यदि न पूज्यते।
अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते॥ ११०॥

तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा।
स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया॥ १११॥

सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम्।
एतानाराध्य बहवः संपत्पारं यतो गताः॥ ११२॥

सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे।
जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः॥ ११३॥

आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः।
समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः॥ ११४॥

मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत्।
बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत्॥ ११५॥

बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः।
न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः॥ ११६॥

गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित्।
दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम्॥ ११७॥

बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते।
एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत्॥ ११८॥

किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम्।
सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत्॥ ११९॥

भिन्दन्ति देहं प्रविशन्त्यवीचिं
येषां कृते तत्र कृते कृतं स्यात्।
महापकारिष्वपि तेन सर्वं
कल्याणमेवाचरणीयमेषु॥ १२०॥

स्वयं मम स्वामिन एव तावद्
यदर्थमात्मन्यपि निर्व्यपेक्षाः।
अहं कथं स्वामिषु तेषु तेषु
करोमि मानं न तु दासभावम्॥ १२१॥

येषां सुखे यान्ति मुदं मुनीन्द्राः
येषां व्यथायां प्रविशन्ति मन्युम्।
तत्तोषणात्सर्वमुनीन्द्रतुष्टि -
स्तत्रापकारेऽपकृतं मुनीनाम्॥ १२२॥

आदीप्तकायस्य यथा समन्ता-
न्न सर्वकामैरपि सौमनस्यम्।
सत्त्वव्यथायामपि तद्वदेव
न प्रीत्युपायोऽस्ति दयामयानाम्॥ १२३॥

तस्मान्मया यज्जनदुःखदेन
दुःखं कृतं सर्वमहाकृपाणाम्।
तदद्य पापं प्रतिदेशयामि
यत्खेदितास्तन्मुनयः क्षमन्ताम्॥ १२४॥

आराधनायाद्य तथागतानां
सर्वात्मना दास्यमुपैमि लोके।
कुर्वन्तु मे मूर्घ्नि पदं जनौघा
विघ्नन्तु वा तुष्यतु लोकनाथः॥ १२५॥

आत्मीकृतं सर्वमिदं जगत्तैः।
कृपात्मभिर्नैव हि संशयोऽस्ति।
दृश्यन्त एते ननु सत्त्वरूपा-
स्त एव नाथाः किमनादरोऽत्र॥ १२६॥

तथागताराधनमेतदेव
स्वार्थस्य संसाधनमेतदेव।
लोकस्य दुःखापहमेतदेव
तस्मान्ममास्तु व्रतमेतदेव॥ १२७॥

यथैको राजपुरुषः प्रमन्थाति महाजनम्।
विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः॥ १२८॥

यस्मान्नैव स एकाकी तस्य राजबलं बलम्।
तथा न दुर्बलं कंचिदपराद्धं विमानयेत्॥ १२९॥

यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम्।
तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा॥ १३०॥

कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा।
यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते॥ १३१॥

तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत्।
यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते॥ १३२॥

आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम्।
इहैव सौभाग्ययशःसौस्थित्यं किं न पश्यसि॥ १३३॥

प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम्।
चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन्॥ १३४॥

इति क्षान्तिपारमिता नाम षष्ठः परिच्छेदः॥


7
वीर्यपारमिता नाम सप्तमः परिच्छेदः।

एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता।
न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः॥१॥

किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते।
आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना॥२॥

अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया।
संसारदुःखानुद्वेगादालस्यमुपजायते॥३॥

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम्।
किमद्यापि न जानासि मृत्योर्वदनमागतः॥४॥

स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि।
तथापि निद्रां यास्येव चण्डालमहिषो यथा॥५॥

यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः।
कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः॥६॥

यावत्संभृतसंभारं मरणं शीघ्रमेष्यति।
संत्यज्यापि तदालस्यमकाले किं करिष्यसि॥७॥

इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम्।
अकस्मान्मृत्युरायातो हा हतोऽस्मीति चिन्तयन्॥८॥

शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान्।
बन्धून्निराशान् संपश्यन् यमदूतमुखानि च॥९॥

स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान्।
त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि॥१०॥

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते।
किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः॥११॥

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे।
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते॥१२॥

निरुद्यम फलाकाङ्क्षिन् सुकुमार बहुव्यथ।
मृत्युग्रस्तोऽमराकार हा दुःखित विहन्यसे॥१३॥

मानुष्यं नावमासाद्य तर दुःखमहानदीम्।
मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः॥१४॥

मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम्।
रतिरौद्धत्यहास्यादौ दुःखहेतौ कथं तव॥१५॥

अविषादबलव्यूहतात्पर्यात्मविधेयता।
परात्मसमता चैव परात्मपरिवर्तनम्॥१६॥

नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः।
यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान्॥१७॥

तेऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा।
यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा॥१८॥

किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम्।
सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम्॥१९॥

अथापि हस्तपादादि दातव्यमिति मे भयम्।
गुरुलाघवमूढत्वं तन्मे स्यादविचारतः॥२०॥

छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्योऽप्यनेकशः।
कल्पकोटीरसंख्येया न च बोधिर्भविष्यति॥२१॥

इदं तु मे परिमितं दुःखं संबोधिसाधनम्।
नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत्॥२२॥

सर्वेऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम्।
तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम्॥२३॥

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान्।
मधुरेणोपचारेण चिकित्सति महातुरान्॥२४॥

आदौ शाकादिदानेऽपि नियोजयति नायकः।
तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत्॥२५॥

यदा शाकेष्विव प्रज्ञा स्वमांसेऽप्युपजायते।
मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम्॥२६॥

न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः।
मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा॥२७॥

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि।
तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते॥२८॥

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान्।
बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः॥२९॥

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः।
बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम्॥३०॥

छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये।
छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन्॥३१॥

एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये।
छन्दमानरतित्यागतात्पर्यवशिताबलैः॥३२॥

अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः।
एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः॥३३॥

तत्र दोषक्षयारम्भे लेशोऽपि मम नेक्ष्यते।
अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम्॥३४॥

गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः।
तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा॥३५॥

गुणलेशेऽपि नाभ्यासो मम जातः कदाचन।
वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम्॥३६॥

न प्राप्तं भगवत्पूजामहोत्सवसुखं मया।
न कृता शासने कारा दरिद्राशा न पूरिता॥३७॥

भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः।
दुःखाय केवलं मातुर्गतोऽस्मि गर्भशल्यताम्॥३८॥

धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना।
विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत्॥३९॥

कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ।
तस्यापि मूलं सततं विपाकफलभावना॥४०॥

दुःखानि दौर्मनस्यानि भयानि विविधानि च।
अभिलाषविघाताश्च जायन्ते पापकारिणाम्॥४१॥

मनोरथः शुभकृतां यत्र यत्रैव गच्छति।
तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते॥४२॥

पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति।
तत्र तत्रैव तत्पापैर्दुःखशस्त्रैर्विहन्यते॥४३॥

विपुलसुगन्धिशीतलसरोरुहगर्भगता
मधुरजिनस्वराशनकृतोपचितद्युतयः।
मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः
सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः॥४४॥

यमपुरुषापनीतसकलच्छविरार्तरवो
हुतवहतापविद्रुतकताम्रनिषिक्ततनुः।
ज्वलदसिशक्तिघातशतशातितमांसदलः
पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः॥४५॥

तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात्।
वज्रध्वजस्थविधिना मानं त्वारभ्य भावयेत्॥४६॥

पूर्वं निरूप्य सामग्रीमारभेन्नारभेत वा।
अनारम्भो वरं नाम न त्वारभ्य निवर्तनम्॥४७॥

जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं च वर्धते।
अन्यच्च कार्यकालं च हीनं तच्च न साधितम्॥४८॥

त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु।
मयैवैकेन कर्तव्यमित्येषा कर्ममानिता॥४९॥

क्लेशस्वतन्त्रो लोकोऽयं न क्षमः स्वार्थसाधने।
तस्मान्मयैषां कर्तव्यं नाशक्तोऽहं यथा जनः॥५०॥

नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति।
मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम्॥५१॥

मृतं दुण्डुभमासाद्य काकोऽपि गरुडायते।
आपदाबाधतेऽल्पापि मनो मे यदि दुर्बलम्॥५२॥

विषादकृतनिश्चेष्टे आपदः सुकरा ननु।
व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः॥५३॥

तस्माद्दृढेन चित्तेन करोम्यापदमापदः।
त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे॥५४॥

मया हि सर्वं जेतव्यमहं जेयो न केनचित्।
मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम्॥५५॥

ये सत्त्वा मानविजिता वरकास्ते न मानिनः।
मानी शत्रुवशं नैति मानशत्रुवशाश्च ते॥५६॥

मानेन दुर्गतिं नीता मानुष्येऽपि हतोत्सवाः।
परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशा॥५७॥

सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः।
तेऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः॥५८॥

ते मानिनो विजयिनश्च त एव शूरा
ये मानशत्रुविजयाय वहन्ति मानम्।
ये तं स्फुरन्तमपि मानरिपुं निहत्य
कामं जने जयफलं प्रतिपादयन्ति॥५९॥

संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः।
दूर्योधनः क्लेशगणैः सिंहो मृगगणैरिव॥६०॥

महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते।
एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत्॥६१॥

यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत्।
तत्कर्मशौण्डोऽतृप्तात्मा क्रीडाफलसुखेप्सुवत्॥६२॥

सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम्।
कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम्॥६३॥

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः।
पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः॥६४॥

तस्मात्कर्मावसानेऽपि निमज्जेत्तत्र कर्मणि।
यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी॥६५॥

बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत्।
सुसमाप्तं च तन्मुञ्चेदुत्तरोत्तरतृष्णया॥६६॥

क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम्।
खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह॥६७॥

तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरन्।
स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन्॥६८॥

विषं रूधिरमासाद्य प्रसर्पति यथा तनौ।
तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति॥६९॥

तैलपात्रधरो यद्वदसिहस्तैरधिष्ठितः।
स्खलिते मरणत्रासात्तत्परः स्यात्तथा व्रती॥७०॥

तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम्।
निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम्॥७१॥

एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत्।
कथं करोमि येनेदं पुनर्मे न भवेदिति॥७२॥

संसर्गं कर्म वा प्राप्तमिच्छेदेतेन हेतुना।
कथं नामास्ववस्थासु स्मृत्युभ्यासो भवेदिति॥७३॥

लघुं कुर्यात्तथात्मानमप्रमादकथां स्मरन्।
कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते॥७४॥

यथैव तूलकं वायोर्गमनागमने वशम्।
तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति॥७५॥

इति वीर्यपारमिता नाम सप्तमः परिच्छेदः॥


8
ध्यानपारमिता नाम अष्टमः परिच्छेदः।

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः।
विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः॥१॥

कायचित्तविवेकेन विक्षेपस्य न संभवः।
तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत्॥२॥

स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया।
तस्मादेतत्परित्यागे विद्वानेवं विभावयेत्॥३॥

शमथेन विपश्यनासुयुक्तः
कुरुते क्लेशविनाशमित्यवेत्य।
शमथः प्रथमं गवेषणीयः
स च लोके निरपेक्षयाभिरत्या॥४॥

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति।
येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः॥५॥

अपश्यन्नरतिं याति समाधौ न च तिष्ठति।
न च तृप्यति दृष्ट्वापि पूर्ववद्बाध्यते तृषा॥६॥

न पश्यति यथाभूतं संवेगादवहीयते।
दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया॥७॥

तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः।
अशाश्वतेन धर्मेण धर्मो भ्रश्यति शाश्वतः॥८॥

बालैः सभागचरितो नियतं याति दुर्गतिम्।
नेष्यते विषभागश्च किं प्राप्तं बालसंगमात्॥९॥

क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात्।
तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः॥१०॥

हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात्।
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम्॥११॥

ईर्ष्योत्कृष्टात्समाद्द्‍वन्द्वो हीनान्मानः स्तुतेर्मदः।
अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत्॥१२॥

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा।
इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः॥१३॥

एवं तस्यापि तत्सङ्गात्तेनानर्थसमागमः।
एकाकी विहरिष्यामि सुखमक्लिष्टमानसः॥१४॥

बालाद्दूरं पलायेत प्राप्तमाराधयेत्प्रियैः।
न संस्तवानुबन्धेन किं तूदासीनसाधुवत्॥१५॥

धर्मार्थमात्रमादाय भृङ्गवत् कुसुमान्मधु।
अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः॥१६॥

लाभी च सत्कृतश्चाहमिच्छन्ति बहवश्च माम्।
इति मर्त्यस्य संप्राप्तान्मरणाज्जायते भयम्॥१७॥

यत्र यत्र रतिं याति मनः सुखविमोहितम्।
तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति॥१८॥

तस्मात्प्राज्ञो न तामिच्छेदिच्छातो जायते भयम्।
स्वयमेव च यात्येतद्धैर्यं कृत्वा प्रतीक्षताम्॥१९॥

बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः।
सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति॥२०॥

मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः।
मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः॥२१॥

नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः।
किं पुनर्मादृशैरज्ञैस्तस्मात्किं लोकचिन्तया॥२२॥

निन्दन्त्यलाभिनं सत्त्वमवध्यायन्ति लाभिनम्।
प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः॥२३॥

न बालः कस्यचिन्मित्रमिति चोक्तं तथागतैः।
न स्वार्थेन विना प्रीतिर्यस्माद्बालस्य जायते॥२४॥

स्वार्थद्वारेण या प्रीतिरात्मार्थं प्रीतिरेव सा।
द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः॥२५॥

नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः
कदा तैः सुखसंवासैः सह वासो भवेन्मम॥२६॥

शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा।
कदानपेक्षो यास्यामि पृष्ठतोऽनवलोकयन्॥२७॥

अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः।
स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा॥२८॥

मृत्पात्रमात्रविभवश्चौरासंभोगचीवरः।
निर्भयो विहरिष्यामि कदा कायमगोपयन्॥२९॥

कायभूमिं निजां गत्वा कङ्कालैरपरैः सह।
स्वकायं तुलयिष्यामि कदा शतनधर्मिणम्॥३०॥

अयमेव हि कायो मे एवं पूतिर्भविष्यति।
शृगाला अपि यद्गन्धान्नोपसर्पेयुरन्तिकम्॥३१॥

अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः।
पृथक् पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः॥३२॥

एक उत्पद्यते जन्तुर्म्रियते चैक एव हि।
नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः॥३३॥

अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः।
तथा भवाध्वगस्यापि जन्मावासपरिग्रहः॥३४॥

चतुर्भिः पुरुषैर्यावत्स न निर्धार्यते ततः।
आशोच्यमानो लोकेन तावदेव वनं व्रजेत्॥३५॥

असंस्तवाविरोधाभ्यामेक एव शरीरकः।
पुर्वमेव मृतो लोके म्रियमाणो न शोचति॥३६॥

न चान्तिकचराः केचिच्छोचन्तः कुर्वते व्यथाम्।
बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन॥३७॥

तस्मादेकाकिता रम्या निरायासा शिवोदया।
सर्वविक्षेपशमनी सेवितव्या मया सदा॥३८॥

सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः।
समाधानाय चित्तस्य प्रयतिष्ये दमाय च॥३९॥

कामा ह्यनर्थजनका इह लोके परत्र च।
इह बन्धवधोच्छेदैर्नरकादौ परत्र च॥४०॥

यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा।
न च पापमकीर्तिर्वा यदर्थं गणिता पुरा॥४१॥

प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम्।
यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः॥४२॥

तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च।
प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम्॥४३॥

उन्नाम्यमानं यत्नाद्यन्नीयमानमधो ह्रिया।
पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम्॥४४॥

तन्मुखं त्वत्परिक्लेशमसहद्भिरिवाधुना।
गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे॥४५॥

परचक्षुर्निपातेभ्योऽप्यासीद्यत्परिरक्षितम्।
तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि॥४६॥

मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम्।
आहारः पूज्यतेऽन्येषां स्रक्‍चन्दनविभूषणैः॥४७॥

निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात्।
वेतालेनेव केनापि चाल्यमानाद्भयं न किम्॥४८॥

एकस्मादशनादेषां लालामेध्यं च जायते।
तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम्॥४९॥

तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः।
दुर्गन्धं न स्रवन्तीति कामिनोऽमेध्यमोहिताः॥५०॥

यत्र च्छन्नेऽप्ययं रागस्तदच्छन्नं किमप्रियम्।
न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते॥५१॥

यदि ते नाशुचौ रागः कस्मादालिङ्गसेऽपरम्।
मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम्॥५२॥

स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर।
अमेध्यभस्त्रामपरां गूथघस्मर विस्मर॥५३॥

मांसप्रियोऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि।
अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि॥५४॥

यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते।
यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा॥५५॥

नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम्।
स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः॥५६॥

विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम्।
अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे॥५७॥

मृदाद्यमेध्यलिप्तत्वाद्यदि न स्प्रष्टुमिच्छसि।
यतस्तन्निर्गतं कायात्तं स्प्रष्टुं कथमिच्छसि॥५८॥

यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम्।
अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम्॥५९॥

अमेध्यभवमल्पत्वान्न वाञ्छस्यशुचिं कृमिम्।
बह्वमेध्यमयं कायममेध्यजमपीच्छसि॥६०॥

न केवलममेध्यत्वमात्मीयं न जुगुप्ससि।
अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि॥६१॥

कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा।
मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता॥६२॥

यदि प्रत्यक्षमप्येतदमेध्यं नाधिमुच्यसे।
श्मशाने पतितान् घोरान् कायान् पश्यापरानपि॥६३॥

चर्मण्युत्पाटिते यस्माद्भयमुत्पद्यते महत्।
कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः॥६४॥

काये न्यस्तोऽप्यसौ गन्धश्चन्दनादेव नान्यतः।
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यसे॥६५॥

यदि स्वभावदौर्गन्ध्याद्रागो नात्र शिवं ननु।
किमनर्थरुचिर्लोकस्तं गन्धेनानुलिम्पति॥६६॥

कायस्यात्र किमायातं सुगन्धि यदि चन्दनम्।
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते॥६७॥

यदि केशनखैर्दीर्घैर्दन्तैः समलपाण्डुरैः।
मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः॥६८॥

स किं संस्क्रियते यत्नादात्मघाताय शस्त्रवत्।
आत्मव्यामोहनोद्युक्तैरुन्मत्तैराकुला मही॥६९॥

कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा।
ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले॥७०॥

एवं चामेध्यमप्येतद्विना मूल्यं न लभ्यते।
तदर्थमर्जनायासो नरकादिषु च व्यथा॥७१॥

शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी।
यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम्॥७२॥

केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः।
गृहमागत्य सायाह्ने शेरते स्म मृता इव॥७३॥

दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः।
वत्सररैपि नेक्षन्ते पुत्रदारांस्तदर्थिनः॥७४॥

यदर्थमेव विक्रीत आत्मा कामविमोहितैः।
तन्न प्राप्तं मुधैवायुर्नीतं तु परकर्मणा॥७५॥

विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम्।
प्रसूयन्ते स्त्रियोऽन्येषामटवीविटपादिषु॥७६॥

रणं जीवितसंदेहं विशन्ति किल जीवितुम्।
मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः॥७७॥

छिद्यन्ते कामिनः केचिदन्ये शूलसमर्पिताः।
दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः॥७८॥

अर्जनरक्षणनाशविषादै-
रर्थमनर्थमनन्तमवेहि।
व्यग्रतया धनसक्तमतीनां
नावसरो भवदुःखविमुक्तेः॥७९॥

एवमादीनवो भूयानल्पास्वादस्तु कामिनाम्।
शकटं वहतो यद्वत्पशोर्घासलवग्रहः॥८०॥

तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः।
हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा॥८१॥

अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः।
कायस्यार्थे कृतो योऽयं सर्वकालं परिश्रमः॥८२॥

ततः कोटिशतेनापि श्रमभागेन बुद्धता।
चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम्॥८३॥

न शस्त्रं न विषं नाग्निर्न प्रपातो न वैरिणः।
कामानामुपमां यान्ति नरकादिव्यथास्मृतेः॥८४॥

एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम्।
कलहायासशून्यासु शान्तासु वनभूमिषु॥८५॥

धन्यैः शशाङ्ककरचन्दनशीतलेषु
रम्येषु हर्म्यविपुलेषु शिलातलेषु।
निःशब्दसौम्यवनमारुतवीज्यमानैः
चंक्रम्यते परहिताय विचिन्त्यते च॥८६॥

विहृत्य यत्र क्वचिदिष्टकालं
शून्यालये वृक्षतले गुहासु।
परिग्रहरक्षणखेदमुक्तः
चरत्यपेक्षाविरतो यथेष्टम्॥८७॥

स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित्।
यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम्॥८८॥

एवमादिभिराकारैर्विवेकगुणभावनात्।
उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत्॥८९॥

परात्मसमतामादौ भावयेदेवमादरात्।
समदुःखसुखाः सर्वे पालनीया मयात्मवत्॥९०॥

हस्तादिभेदेन बहुप्रकारः
कायो यथैकः परिपालनीयः।
तथा जगद्भिन्नमभिन्नदुःख-
सुखात्मकं सर्वमिदं तथैव॥९१॥

यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते।
तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम्॥९२॥

तथा यद्यप्यसंवेद्यमन्यद्दुःखं मयात्मना।
तथापि तस्य तद्दुःखमात्मस्नेहेन दुःसहम्॥९३॥

मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत्।
अनुग्राह्या मयान्येऽपि सत्त्वत्वादात्मसत्त्ववत्॥९४॥

यदा मम परेषां च तुल्यमेव सुखं प्रियम्।
तदात्मनः को विशेषो येनात्रैव सुखोद्यमः॥९५॥

यदा मम परेषां च भयं दुःखं च न प्रियम्।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्॥९६॥

तद्दुःखेन न मे बाधेत्यतो यदि न रक्ष्यते।
नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते॥९७॥

अहमेव तदापीति मिथ्येयं परिकल्पना।
अन्य एव मृतो यस्मादन्य एव प्रजायते॥९८॥

यदि तस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम्।
पाददुःखं न हस्तस्य कस्मात्तत्तेन रक्ष्यते॥९९॥

अयुक्तमपि चेदेतदहंकारात्प्रवर्तते।
तदयुक्तं निवर्त्यं तत्स्वमन्यच्च यथाबलम्॥१००॥

संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा।
यस्य दुःखं स नास्त्यस्मात्कस्य तत्स्वं भविष्यति॥१०१॥

अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः।
दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः॥१०२॥

दुःखं कस्मान्निवार्यं चेत्सर्वेषामविवादतः।
वार्यं चेत्सर्वमप्येवं न चेदात्मापि सत्त्ववत्॥१०३॥

कृपया बहु दुःखं चेत्कस्मादुत्पद्यते बलात्।
जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु॥१०४॥

बहूनामेकदुःखेन यदि दुःखं विगच्छति।
उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः॥१०५॥

अतः सुपुष्पचन्द्रेण जानतापि नृपापदम्।
आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात्॥१०६॥

एवं भावितसंतानाः परदुःखसमप्रियाः।
अवीचिमवगाहन्ते हंसाः पद्मवनं यथा॥१०७॥

मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः।
तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम्॥१०८॥

अतः परार्थं कृत्वापि न मदो न च विस्मयः।
न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया॥१०९॥

तस्माद्यथान्तशोऽवर्णादात्मानं गोपयाम्यहम्।
रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि॥११०॥

अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु।
भवत्यहमिति ज्ञानमसत्यपि हि वस्तुनि॥१११॥

तथा कायोऽन्यदीयोऽपि किमात्मेति न गृह्यते।
परत्वं तु स्वकायस्य स्थितमेव न दुष्करम्॥११२॥

ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन्।
आत्मभावपरित्यागं परादानं च भावयेत्॥११३॥

कायस्यावयवत्वेन यथाभीष्टाः करादयः।
जगतोऽवयवत्वेन तथा कस्मान्न देहिनः॥११४॥

यथात्मबुद्धिरभ्यासात्स्वकायेऽस्मिन्निरात्मके।
परेष्वपि तथात्मत्वं किमभ्यासान्न जायते॥११५॥

एवं परार्थं कृत्वापि न मदो न च विस्मयः।
आत्मानं भोजयित्वैव फलाशा न च जायते॥११६॥

तस्माद्यथार्तिशोकादेरात्मानं गोप्तुमिच्छसि।
रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा॥११७॥

अध्यतिष्ठदतो नाथः स्वनामाप्यवलोकितः।
पर्षच्छारद्यभयमप्यपनेतुं जनस्य हि॥११८॥

दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः।
यस्यैव श्रवणात्रासस्तेनैव न विना रतिः॥११९॥

आत्मानं चापरांश्चैव यः शीघ्रं त्रातुमिच्छति।
स चरेत्परमं गुह्यं परात्मपरिवर्तनम्॥१२०॥

यस्मिन्नात्मन्यतिस्नेहादल्पादपि भयाद्भयम्।
न द्विषेत्कस्तमात्मानं शत्रुवधो भयावहः॥१२१॥

यो मान्द्यक्षुत्पिपासादिप्रतीकारचिकीर्षया।
पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति॥१२२॥

यो लाभसत्क्रियाहेतोः पितरावपि मारयेत्।
रत्नत्रयस्वमादद्याद्येनावीचीन्धनो भवेत्॥१२३॥

कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत्॥
न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत्॥१२४॥

यदि दास्यामि किं भोक्ष्ये इत्यात्मार्थे पिशाचता।
यदि भोक्ष्ये किं ददामीति परार्थे देवराजता॥१२५॥

आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते।
आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः॥१२६॥

दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया।
तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः॥१२७॥

आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते।
परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते॥१२८॥

ये केचिद्दुःखिता लोके सर्वे ते स्वसुखेच्छया।
ये केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया॥१२९॥

बहुना वा किमुक्तेन दृश्यतामिदमन्तरम्।
स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः॥१३०॥

न नाम साध्यं बुद्धत्वं संसारेऽपि कुतः सुखम्।
स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः॥१३१॥

आस्तां तावत्परो लोके दृष्टोऽप्यर्थो न सिध्यति।
भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम्॥१३२॥

त्यक्त्वान्योन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम्।
अन्योन्यदुःखनाद् घोरं दुःखं गृह्णन्ति मोहिताः॥१३३॥

उपद्रवा ये च भवन्ति लोके
यावन्ति दुःखानि भयानि चैव।
सर्वाणि तान्यात्मपरिग्रहेण
तत्किं ममानेन परिग्रहेण॥१३४॥

आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते।
यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते॥१३५॥

तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च।
ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत्॥१३६॥

अन्यसंबद्धमस्मीति निश्चयं कुरु हे मनः।
सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना॥१३७॥

न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः।
न युक्तं स्यन्दितुं स्वार्थमन्यदीयैः करादिभिः॥१३८॥

तेन सत्त्वपरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे।
तत्तदेवापहत्यास्मात् परेभ्यो हितमाचर॥१३९॥

हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि।
भावयेर्ष्यां च मानं च निर्विकल्पेन चेतसा॥१४०॥

एष सत्क्रियते नाहं लाभी नाहमयं यथा।
स्तूयतेऽहमहं निन्द्यो दुःखितोऽहमयं सुखी॥१४१॥

अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः।
अयं किल महांल्लोके नीचोऽहं किल निर्गुणः॥१४२॥

किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः।
सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः॥१४३॥

शीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात्।
चिकित्स्योऽहं यथाशक्ति पीडाप्यङ्गीकृता मया॥१४४॥

अथाहमचिकित्स्योऽस्य कस्मान्मामवमन्यसे।
किं ममैतद्गुणैः कृत्यमात्मा तु गुणवानयम्॥१४५॥

दुर्गतिव्यालबक्त्रस्थेनैवास्य करुणा जने।
अपरं गुणमानेन पण्डितान् विजिगीषते॥१४६॥

सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये।
कलहेनापि संसाध्यं लाभसत्कारमात्मनः॥१४७॥

अपि सर्वत्र मे लोके भवेयुः प्रकटा गुणाः।
अपि नाम गुणा येऽस्य न श्रोष्यन्त्यपि केचन॥१४८॥

छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत्।
सुलब्धा अद्य मे लाभाः पूजितोऽहमयं न तु॥१४९॥

पश्यामो मुदितास्तावच्चिरादेनं खलीकृतम्।
हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः॥१५०॥

अस्यापि हि वराकस्य स्पर्धा किल मया सह।
किमस्य श्रुतमेतावत् प्रज्ञा रूपं कुलं धनम्॥१५१॥

एवमात्मगुणान् श्रुत्वा कीर्त्यमानानितस्ततः।
संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम्॥१५२॥

यद्यप्यस्य भवेल्लाभो ग्राह्योऽस्माभिरसौ बलात्।
दत्वास्मै यापनामात्रमस्मत्कर्म करोति चेत्॥१५३॥

सुखाच्च च्यावनीयोऽयं योज्योऽस्मद्व्‍यथया सदा।
अनेन शतशः सर्वे संसारव्यथिता वयम्॥१५४॥

अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव।
श्रमेण महतानेन दुःखमेव त्वयार्जितम्॥१५५॥

मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः।
द्रक्ष्यस्येतद्गुणान् पश्चाद्भूतं हि वचनं मुनेः॥१५६॥

अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया।
बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा॥१५७॥

तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु।
चकर्थ त्वमहंकारं तथान्येष्वपि भावय॥१५८॥

अन्यदीयश्चरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे।
तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर॥१५९॥

अयं सुस्थः परो दुःस्थो नीचैरन्योऽयमुच्चकैः।
परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि॥१६०॥

सुखाच्च च्यावयात्मानं परदुःखे नियोजय।
कदायं किं करोतीति छल(फल)मस्य निरूपय॥१६१॥

अन्येनापि कृतं दोषं पातयास्यैव मस्तके।
अल्पमप्यस्य दोषं च प्रकाशय महामुनेः॥१६२॥

अन्याधिकयशोवादैर्यशोऽस्य मलिनीकुरु।
निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय॥१६३॥

नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम्।
यथा कश्चिन्न जानीयाद्गुणमस्य तथा कुरु॥१६४॥

संक्षेपाद्यद्यदात्मार्थे परेष्वपकृतं त्वया।
तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय॥१६५॥

नैवोत्साहोऽस्य दातव्यो येनायं मुखरो भवेत्।
स्थाप्यो नववधूवृत्तौ ह्रीतो भीतोऽथ संवृतः॥१६६॥

एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया।
एवमेव वशः कार्यो निग्राह्यस्तदतिक्रमे॥१६७॥

अथैवमुच्यमानेऽपि चित्त नेदं करिष्यसि।
त्वामेव निग्रहीष्यामि सर्वदोषास्त्वदाश्रिताः॥१६८॥

क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते।
अन्योऽसौ पूर्वकः कालस्त्वया यत्रास्मि नाशितः॥१६९॥

अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम्।
त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन्॥१७०॥

त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमोदतः।
त्वं मां नरकपालेषु प्रदास्यसि न संशयः॥१७१॥

एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम्।
निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन्॥१७२॥

न कर्तव्यात्मनि प्रीतिर्यद्यात्मप्रीतिरस्ति ते।
यद्यात्मा रक्षितव्योऽयं रक्षितव्यो न युज्यते॥१७३॥

यथा यथास्य कायस्य क्रियते परिपालनम्।
सुकुमारतरो भूत्वा पतत्येव तथा तथा॥१७४॥

अस्यैवं पतितस्यापि सर्वापीयं वसुंधरा।
नालं पूरयितुं वाञ्छां तत्कोऽस्येच्छां करिष्यति॥१७५॥

अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते।
निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका॥१७६॥

तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये।
भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते॥१७७॥

भस्मनिष्ठावसानेयं निश्चेष्टान्येन चाल्यते।
अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः॥१७८॥

किं ममानेन यन्त्रेण जीविना वा मृतेन वा।
लोष्टादेः को विशेषोऽस्य हाहंकारं न नश्यसि॥१७९॥

शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते।
किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा॥१८०॥

मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा।
न च स्नेहो न च द्वेषस्तत्र स्नेहं करोमि किम्॥१८१॥

रोषो यस्य खलीकारात्तोषो यस्य च पूजया।
स एव चेन्न जानाति श्रमः कस्य कृतेन मे॥१८२॥

इमं ये कायमिच्छन्ति तेऽपि मे सुहृदः किल।
सर्वे स्वकायमिच्छन्ति तेऽपि कस्मान्न मे प्रियाः॥१८३॥

तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते।
अतोऽयं बहुदोषोऽपि धार्यते कर्मभाण्डवत्॥१८४॥

तेनालं लोकचरितैः पण्डिताननुयाम्यहम्।
अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन्॥१८५॥

तस्मादावरणं हन्तुं समाधानं करोम्यहम्।
विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम्॥१८६॥

बोधिचर्यावतारे ध्यानपारमिता नाम अष्टमः परिच्छेदः।


9
प्रज्ञापारमिता नाम नवमः परिच्छेदः॥

इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ।
तस्मादुत्पादयेत्प्रज्ञां दुःखनिवृत्तिकाङ्क्षया॥१॥

संवृतिः परमार्थश्च सत्यद्वयमिदं मतम्।
बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते॥२॥

तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा।
तत्र प्राकृतको लोको योगिलोकेन बाध्यते॥३॥

बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः।
दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः॥४॥

लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः।
न तु मायावदित्यत्र विवादो योगिलोकयोः॥५॥

प्रत्यक्षमपि रूपादि प्रसिद्ध्‍या न प्रमाणतः।
अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा॥६॥

लोकावतारणार्थं च भावा नाथेन देशिताः।
तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते॥७॥

न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः।
अन्यथा लोकबाधा स्यादशुचिस्त्रीनिरूपणे॥८॥

मायोपमाज्जिनात्पुण्यं सद्भावेऽपि कथं यथा।
यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः॥९॥

यावत्प्रत्ययसामग्री तावन्मायापि वर्तते।
दीर्घसंतानमात्रेण कथं सत्त्वोऽस्ति सत्यतः॥१०॥

मायापुरुषघातादौ चित्ताभावान्न पापकम्।
चित्तमायासमेते तु पापपुण्यसमुद्भवः॥११॥

मन्त्रादीनामसामर्थ्यान्न मायाचित्तसंभवः।
सापि नानाविधा माया नानाप्रत्ययसंभवा।
नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित्॥१२॥

निर्वृतः परमार्थेन संवृत्या यदि संसरेत्।
बुद्धोऽपि संसरेदेवं ततः किं बोधिचर्यया॥१३॥

प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि।
प्रत्ययानां तु विच्छेदात्संवृत्यापि न संभवः॥१४॥

यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते॥१५॥

यदा मायैव ते नास्ति तदा किमुपलभ्यते।
चित्तस्यैव स आकारो यद्यप्यन्योऽस्ति तत्त्वतः॥१६॥

चित्तमेव यदा माया तदा किं केन दृश्यते।
उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति।
न च्छिनत्ति यथात्मानमसिधारा तथा मनः॥१७॥

आत्मभावं यथा दीपः संप्रकाशयतीति चेत्।
नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः॥१८॥

न हि स्फटिकवन्नीलं नीलत्वेऽन्यमपेक्षते।
तथा किंचित्परापेक्षमनपेक्षं च दृश्यते॥१९॥

अनीलत्वे न तन्नीलं नीलहेतुर्यथेक्ष्यते।
नीलमेव हि को नीलं कुर्यादात्मानमात्मना॥२०॥

दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते।
बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते॥२२॥

प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित्।
वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा॥२३॥

यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम्।
अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा॥२४॥

प्रत्ययान्तरयुक्तस्य दर्शनात्स्वं प्रकाशते।
सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत्॥२५॥

यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते।
सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते॥२६॥

चित्तादन्या न माया चेन्नाप्यनन्येति कल्प्यते।
वस्तु चेत्सा कथं नान्यानन्या चेन्नास्ति वस्तुतः॥२७॥

असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः।
वस्त्वाश्रयश्चेत्संसारः सोऽन्यथाकाशवद्भवेत्॥२८॥

वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत्।
असत्सहायमेकं हि चित्तमापद्यते तव॥२९॥

ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः।
एवं च को गुणो लब्धश्चित्तमात्रेऽपि कल्पिते॥३०॥

मायोपमत्वेऽपि ज्ञाते कथं क्लेशो निवर्तते।
यदा मायास्त्रियां रागस्तत्कर्तुरपि जायते॥३१॥

अप्रहीणा हि तत्कर्तुर्ज्ञेयसंक्लेशवासना।
तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना॥३२॥

शून्यतावासनाधानाद्धीयते भाववासना।
किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते॥३३॥

यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते।
तदा निराश्रयोऽभावः कथं तिष्ठेन्मतेः पुरः॥३४॥

यदा न भावो नाभावो मतेः संतिष्ठते पुरः।
तदान्यगत्यभावेन निरालम्बा प्रशाम्यति॥३५॥

चिन्तामणिः कल्पतरुर्यथेच्छापरिपूरणः।
विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते॥३६॥

यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति।
स तस्मिंश्चिरनष्टेऽपि विषादीनुपशामयेत्॥३७॥

बोधिचर्यानुरूप्येण जिनस्तम्भोऽपि साधितः।
करोति सर्वकार्याणि बोधिसत्त्वेऽपि निर्वृते॥३८॥

अचित्तके कृता पूजा कथं फलवती भवेत्।
तुल्यैव पठ्यते यस्मात्तिष्ठतो निर्वृतस्य च॥३९॥

आगमाच्च फलं तत्र संवृत्या तत्त्वतोऽपि वा।
सत्यबुद्धे कृता पूजा सफलेति कथं यथा॥४०॥

सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम्।
न विनानेन मार्गेण बोधिरित्यागमो यतः॥४१॥

नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः।
यस्मादुभयसिद्धोऽसौ न सिद्धोऽसौ तवादितः॥४२॥

यत्प्रत्यया च तत्रास्था महायानेऽपि तां कुरु।
अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता॥४३॥

सविवादं महायानमिति चेदागमं त्यज।
तीर्थिकैः सविवादत्वात्स्वैः परैश्चागमान्तरम्॥४४॥

शासनं भिक्षुतामूलं भिक्षुतैव च दुःस्थिता।
सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम्॥४५॥

क्लेशप्रहाणान्मुक्तिश्चेत्तदनन्तरमस्तु सा।
दृष्टं च तेषु सामर्थ्यं निष्क्लेशस्यापि कर्मणः॥४६॥

तृष्णा तावदुपादानं नास्ति चेत्संप्रधार्यते।
किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती॥४७॥

वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते।
सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा॥४८॥

विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः।
यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम्॥४९॥

सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः।
मोहेन दुःखिनामर्थे शून्यताया इदं फलम्॥५३॥

तदेवं शून्यतापक्षे दूषणं नोपपद्यते।
तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता॥५४॥

क्लेशज्ञेयावृतितमःप्रतिपक्षो हि शून्यता।
शीघ्रं सर्वज्ञताकामो न भावयति तां कथम्॥५५॥

यद्दुःखजननं वस्तु त्रासस्तस्मात्प्रजायताम्।
शून्यता दुःखशमनी ततः किं जायते भयम्॥५६॥

यतस्ततो वास्तु भयं यद्यहं नाम किंचन।
अहमेव च किंचिच्चेद्भयं कस्य भविष्यति॥५७॥

दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम्।
न सिंघाणं न च श्लेष्मा न पूयं लसिकापि वा॥५८॥

नाहं वसा न च स्वेदो न मेदोऽस्त्राणि नाप्यहम्।
न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च॥५९॥

नाहं मांसं न च स्नायु नोष्मा वायुरहं न च।
न च च्छिद्राण्यहं नापि षड् विज्ञानानि सर्वथा॥६०॥

शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा।
ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते॥६१॥

अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते।
तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः॥६२॥

तदेव रूपं जानाति तदा किं न शृणोत्यपि।
शब्दस्यासंनिधानाच्चेत्ततस्तज्ज्ञानमप्यसत्॥६३॥

शब्दग्रहणरूपं यत्तद्रूपग्रहणं कथम्।
एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः॥६४॥

सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः।
शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते॥६५॥

तदेवान्येन रूपेण नटवत्सोऽप्यशाश्वतः।
स एवान्यस्वभावश्चेदपूर्वेयं तदेकता॥६६॥

अन्यद्रूपमसत्यं चेन्निजं तद्रूपमुच्यताम्।
ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते॥६७॥

चेतनाचेतने चैक्यं तयोर्येनास्तिता समा।
विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा॥६८॥

अचेतनश्च नैवाहमाचैतन्यात्पटादिवत्।
अथ ज्ञश्चेतनायोगादज्ञो नष्टः प्रसज्यते॥६९॥

अथाविकृत एवात्मा चैतन्येनास्य किं कृतम्।
अज्ञस्य निष्क्रियस्यैवमाकाशस्यात्मता मता॥७०॥

न कर्मफलसंबन्धो युक्तश्चेदात्मना विना।
कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति॥७१॥

द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले।
निर्व्यापारश्च तत्रात्मेत्यत्र वादो वृथा ननु॥७२॥

हेतुमान् फलयोगीति दृश्यते नैष संभवः।
संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम्॥७३॥

अतीतानागतं चित्तं नाहं तद्धि न विद्यते।
अथोत्पन्नमहं चित्तं नष्टेऽस्मिन्नास्त्यहं पुनः॥७४॥

यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः।
तथाहमप्यसद्भूतो मृग्यमाणो विचारतः॥७५॥

यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत्।
कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः॥७६॥

कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः।
दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते॥७७॥

दुःखहेतुरहंकार आत्ममोहात्तु वर्धते।
ततोऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना॥७८॥

कायो न पादौ न जङ्घा नोरू कायः कटिर्न च।
नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः॥७९॥

न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः।
न ग्रीवा न शिरः कायः कायोऽत्र कतरः पुनः॥८०॥

यदि सर्वेषु कायोऽयमेकदेशेन वर्तते।
अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः॥८१॥

सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु।
कायास्तावन्त एव स्युर्यावन्तस्ते करादयः॥८२॥

नैवान्तर्न बहिः कायः कथं कायः करादिषु।
करादिभ्यः पृथङ् नास्ति कथं नु खलु विद्यते॥८३॥

तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु।
संनिवेशविशेषेण स्थाणौ पुरुषबुद्धिवत्॥८४॥

यावत्प्रत्ययसामग्री तावत्कायः पुमानिव।
एवं करादौ सा यावत्तावत्कायोऽत्र दृश्यते॥८५॥

एवमङ्गुलिपुञ्जत्वात्पादोऽपि कतरो भवेत्।
सोऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः॥८६॥

अंशा अप्यणुभेदेन सोऽप्यणुर्दिग्विभागतः।
दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः॥८७॥

एवं स्वप्नोपमे रूपे को रज्येत विचारकः।
कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः॥८८॥

यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते।
शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते॥८९॥

बलीयसाभिभूतत्वाद्यदि तन्नानुभूयते।
वेदनात्वं कथं तस्य यस्य नानुभवात्मता॥९०॥

अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु।
तुष्टिमात्रापरा चेत्स्यात्तस्मात् साप्यस्य सूक्ष्मता॥९१॥

विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि।
कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु॥९२॥

अत एव विचारोऽयं प्रतिपक्षोऽस्य भाव्यते।
विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः॥९३॥

सान्तराविन्द्रियार्थौ चेत्संसर्गः कुत एतयोः।
निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु संगतिः॥९४॥

नाणोरणौ प्रवेशोऽस्ति निराकाशः समश्च सः।
अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः॥९५॥

निरंशस्य च संसर्गः कथं नामोपपद्यते।
संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय॥९६॥

विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते।
समूहस्याप्यवस्तुत्वाद्यथा पूर्वं विचारितम्॥९७॥

तदेवं स्पर्शनाभावे वेदनासंभवः कुतः।
किमर्थमयमायासः बाधा कस्य कुतो भवेत्॥९८॥

यदा न वेदकः कश्चिद्वेदना च न विद्यते।
तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे॥९९॥

दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना।
चित्तेन सहजातत्वाद्वेदना तेन नेक्ष्यते॥१००॥

पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते।
स्वात्मानं नानुभवति न चान्येनानुभूयते॥१०१॥

न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः।
निरात्मके कलापेऽस्मिन् क एवं बाध्यतेऽनया॥१०२॥

नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम्।
नाप्यन्तर्न बहिश्चित्तमन्यत्रापि न लभ्यते॥१०३॥

यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित्।
तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः॥१०४॥

ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः।
ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः॥१०५॥

अथ ज्ञेयाद्भवेत् पश्चात् तदा ज्ञानं कुतो भवेत्।
एवं च सर्वधर्माणामुत्पत्तिर्नावसीयते॥१०६॥

यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः।
अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः॥१०७॥

परचित्तविकल्पोऽसौ स्वसंवृत्या तु नास्ति सः।
स पश्चान्नियतः सोऽस्ति न चेन्नास्त्येव संवृतिः॥१०८॥

कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम्।
यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते॥१०९॥

विचारितेन तु यदा विचारेण विचार्यते।
तदानवस्था तस्यापि विचारस्य विचारणात्॥११०॥

विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः।
निराश्रितत्वान्नोदेति तच्च निर्वाणमुच्यते॥१११॥

यस्य त्वेतद्दूयं सत्यं स एवात्यन्तदुःस्थितः।
यदि ज्ञेयवशादर्थो ज्ञानास्तित्वे तु का गतिः॥११२॥

अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः।
अथान्योन्यवशात्सत्त्वमभावः स्याद्दूयोरपि॥११३॥

पिता चेन्न विना पुत्रात्कुतः पुत्रस्य संभवः।
पुत्राभावे पिता नास्ति तथासत्त्वं तयोर्द्वयोः॥११४॥

अङ्कुरो जायते बीजाद्बीजं तेनैव सूच्यते।
ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते॥११५॥

अङ्कुरादन्यतो ज्ञानाद्बीजमस्तीति गम्यते।
ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते॥११६॥

लोकः प्रत्यक्षतस्तावत्सर्वं हेतुमुदीक्षते।
पद्मनालादिभेदो हि हेतुभेदेन जायते॥११७॥

किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः।
कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः॥११८॥

ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः।
भूतानि चेद्भवत्वेवं नाममात्रेऽपि किं श्रमः॥११९॥

अपि त्वनेकेऽनित्याश्च निश्चेष्टा न च देवताः।
लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः॥१२०॥

नाकाशमीशोऽचेष्टत्वात् नात्मा पूर्वनिषेधतः।
अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते॥१२१॥

तेन किं स्रष्टुमिष्टं च आत्मा चेत् नन्वसौ ध्रुवः।
क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च॥१२२॥

कर्मणः सुखदुःखे च वद किं तेन निर्मितम्।
हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत्॥१२३॥

कस्मात्सदा न कुरुते न हि सोऽन्यमपेक्षते।
तेनाकृतोऽन्यो नास्त्येव तेनासौ किमपेक्षताम्॥१२४॥

अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः।
नाकर्तुमीशः सामग्र्यां [न कर्तुं तदभावतः]॥१२५॥

करोत्यनिच्छन्नीशश्चेत्परायत्तः प्रसज्यते।
इच्छन्नपीच्छायत्तः स्यात् कुर्वतः कुत ईशता॥१२६॥

येऽपि नित्यानणूनाहुस्तेऽपि पूर्वं निवारिताः।
सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम्॥१२७॥

सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः।
प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते॥१२८॥

एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत्।
एवं गुणा न विद्यन्ते प्रत्येकं तेऽपि हि त्रिधा॥१२९॥

गुणाभावे च शब्दादेरस्तित्वमतिदूरतः।
अचेतने च वस्त्रादौ सुखादेरप्यसंभवः॥१३०॥

तद्धेतुरूपा भावाश्चेन्ननु भावा विचारिताः।
सुखाद्येव च ते हेतुः न च तस्मात्पटादयः॥१३१॥

पटादेस्तु सुखादि स्यात्तदभावात्सुखाद्यसत्।
सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते॥१३२॥

सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते।
तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम्॥१३३॥

स्थौल्यं त्यक्त्वा भवेत्सूक्ष्ममनित्ये स्थौल्यसूक्ष्मते।
सर्वस्य वस्तुनस्तद्वत्किं नानित्यत्वमिष्यते॥१३४॥

न स्थौल्यं चेत्सुखादन्यत् सुखस्यानित्यता स्फुटम्।
नासदुत्पद्यते किंचिदसत्त्वादिति चेन्मतम्।
व्यक्तस्यासत उत्पत्तिरकामस्यापि ते स्थिता॥१३५॥

अन्नादोऽमेध्यभक्षः स्यात् फलं हेतौ यदि स्थितम्।
पटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम्॥१३६॥

मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः॥१३७॥

लोकस्यापि च तज्ज्ञानमस्ति कस्मान्न पश्यति।
लोकाप्रमाणतायां चेत् व्यक्तदर्शनमप्यसत्॥१३८॥

प्रमाणमप्रमाणं चेन्ननु तत्प्रमितं मृषा।
तत्त्वतः शून्यता तस्माद्भावानां नोपपद्यते॥१३९॥

कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते।
तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा॥१४०॥

तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना।
तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा॥१४१॥

तस्मादेवं विचारेण नास्ति किंचिदहेतुतः।
न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम्॥१४२॥

अन्यतो नापि चायातं न तिष्ठति न गच्छति।
मायातः को विशेषोऽस्य यन्मूढैः सत्यतः कृतम्॥१४३॥

मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम्।
आयाति तत्कुतः कुत्र याति चेति निरूप्यताम्॥१४४॥

यदन्यसंनिधानेन दृष्टं न तदभावतः।
प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम्॥१४५॥

विद्यमानस्य भावस्य हेतुना किं प्रयोजनम्।
अथाप्यविद्यमानोऽसौ हेतुना किं प्रयोजनम्॥१४६॥

नाभावस्य विकारोऽस्ति हेतुकोटिशतैरपि।
तदवस्थ कथं भावः को वान्यो भावतां गतः॥१४७॥

नाभावकाले भावश्चेत्कदा भावो भविष्यति।
नाजातेन हि भावेन सोऽभावोऽपगमिष्यति॥१४८॥

न चानपगतेऽभावे भावावसरसंभवः।
भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः॥१४९॥

एवं न च निरोधोऽस्ति न च भावोऽस्ति सर्वदा।
अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत्॥१५०॥

स्वप्नोपमास्तु गतयो विचारे कदलीसमाः।
निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः॥१५१॥

एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत्।
सत्कृतः परिभूतो वा केन कः संभविष्यति॥१५२॥

कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम्।
का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः॥१५३॥

विचारे जीवलोकः कः को नामात्र मरिष्यति।
को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत्॥१५४॥

सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः।
प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः॥१५५॥

शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः।
यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः॥१५६॥

मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च।
आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः॥१५७॥

भवे बहुप्रपातश्च तत्र चातत्त्वमीदृशम्।
तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम्॥१५८॥

तत्र चानुपमास्तीव्रा अनन्ता दुःखसागराः।
तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः॥१५९॥

तत्रापि जीवितारोग्यव्यापारेः क्षुत्क्लमश्रमैः।
निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा॥१६०॥

वृथैवायुर्वहत्याशु विवेकस्तत्र दुर्लभः।
तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः॥१६१॥

तत्रापि मारो यतते महापायप्रपातने।
तत्रासन्मार्गबाहुल्याद्विचिकित्सा च दुर्जया॥१६२॥

पुनश्च क्षणदौर्लभ्यं बुद्धोत्पादोऽतिदुर्लभः।
क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरंपरा॥१६३॥

अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम्।
ये नेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःस्थिताः॥१६४॥

स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः।
स्वसौस्थित्यं च मन्यन्ते एवमप्यतिदुःस्थिताः॥१६५॥

अजरामरलीलानामेवं विहरतां सताम्।
आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः॥१६६॥

एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा।
पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः॥१६७॥

कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम्।
संवृत्यानुपलम्भेन पुण्यसंभारमादरात्॥१६८॥

इति प्रज्ञापारमितापरिच्छेदो नवमः॥


10
परिणामनापरिच्छेदो दशमः।

बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम्।
तेन सर्वे जनाः सन्तु बोधिचर्याविभूषणाः॥१॥

सर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः।
ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान्॥२॥

आसंसारं सुखज्यानिर्मा भूत्तेषां कदाचन।
बोधिसत्त्वसुखं प्राप्तं भवत्वविरतं जगत्॥३॥

यावन्तो नरकाः केचिद्विद्यन्ते लोकधातुषु।
सुखावतीसुखामोद्यैर्मोदन्तां तेषु देहिनः॥४॥

शीतार्ताः प्राप्नुवन्तूष्णमुष्णार्ताः सन्तु शीतलाः।
बोधिसत्त्वमहामेघसंभवैर्जलसागरैः॥५॥

असिपत्रवनं तेषां स्यान्नन्दनवनद्युति।
कूटशाल्मलिवृक्षाश्च जायन्तां कल्पपादपाः॥६॥

कादम्बकारण्डवचक्रवाक-
हंसादिकोलाहलरम्यशोभैः।
सरोभिरुद्दामसरोजगन्धै-
र्भवन्तु हृद्या नरकप्रदेशाः॥७॥

सोऽङ्गारराशिर्मणिराशिरस्तु
तप्ता च भूः स्फाटिककुट्टिमं स्यात्।
भवन्तु संघातमहीधराश्च
पूजाविमानाः सुगतप्रपूर्णाः॥८॥

अङ्गारतप्तोपलशस्त्रवृष्टि-
रद्यप्रभृत्यस्तु च पुष्पवृष्टिः।
तच्छस्त्रयुद्धं च परस्परेण
क्रीडार्थमद्यास्तु च पुष्पयुद्धम्॥९॥

पतितसकलमांसाः कुन्दवर्णास्थिदेहा
दहनसमजलायां वैतरण्यां निमग्नाः।
मम कुशलबलेन प्राप्तदिव्यात्मभावाः
सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः॥१०॥

त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोरा
ध्वान्तं ध्वस्तं समन्तात्सुखरतिजननी कस्य सौम्या प्रभेयम्।
इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं
दृष्ट्वा प्रामोद्यवेगाद्व्यपगतदुरिता यान्तु तेनैव सार्धम्॥११॥

पतति कमलवृष्टिर्गन्धपानीयमिश्रा-
च्छमिति (?)नरकवह्निं दृश्यते नाशयन्ती।
किमिदमिति सुखेनाह्लादितानामकस्मा-
द्भवतु कमलपाणेर्दर्शनं नारकाणाम्॥१२॥

आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः
संप्राप्तोऽस्माकमेष ज्वलदभयकरः कोऽपि चीरीकुमारः।

सर्वं यस्यानुभावाद्व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः
जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च॥१३॥

पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं
कारूण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम्।

कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्रोपगीतै-
र्दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम्॥१४॥

इति मत्कुशलैः समन्तभद्र-
प्रमुखानावृतबोधिसत्त्वमेघान्।
सुखशीतसुगन्धवातवृष्टी-
नभिनन्दन्तु विलोक्य नारकास्ते॥१५॥

शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च।
दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः॥१६॥

अन्योन्यभक्षणभयं तिरश्चामपगच्छतु।
भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः॥१७॥

संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा।
आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः॥१८॥

अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा।
गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः॥१९॥

वस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम्।
मनोभिलषितं सर्वं लभन्तां हितसंहितम्॥२०॥

भीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः।
उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च॥२१॥

आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात्।
दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम्॥२२॥

सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम्।
येन कार्येण गच्छन्ति तदुपायेन सिध्यतु॥२३॥

नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः।
क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः॥२४॥

कान्तारोन्मार्गपतिता लभन्तां सार्थसंगतिम्।
अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः॥२५॥

सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे।
अनाथाबालवृद्धानां रक्षां कुर्वन्तु देवताः॥२६॥

सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः।
आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा॥२७॥

भवन्त्वक्षयकोशाश्च यावद्गगनगञ्जवत्।
निर्द्वन्द्वा निरुपायासाः सन्तु स्वाधीनवृत्तयः॥२८॥

अल्पौजसश्च ये सत्त्वास्ते भवन्तु महौजसः।
भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः॥२९॥

याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः।
प्राप्नुवन्तूच्चतां नीचा हतमाना भवन्तु च॥३०॥

अनेन मम पुण्येन सर्वसत्त्वा अशेषतः।
विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा॥३१॥

बोधिचित्ताविरहिता बोधिचर्यापरायणाः।
बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः॥३२॥

अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते।
नित्यं जीवन्तु सुखिता मृत्युशब्दोऽपि नश्यतु॥३३॥

रम्याः कल्पद्रुमोद्यानैर्दिशः सर्वा भवन्तु च।
बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः॥३४॥

शर्करादिव्यपेता च समा पाणितलोपमा।
मृद्वी च वैडूर्यमयी भूमिः सर्वत्र तिष्ठतु॥३५॥

बोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः।
निषीदन्तु स्वशोभाभिर्मण्डयन्तु महीतलम्॥३६॥

पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि।
धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः॥३७॥

बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम्।
पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम्॥३८॥

देवो वर्षतु कालेन सस्यसंपत्तिरस्तु च।
स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः॥३९॥

शक्ता भवन्तु चौषध्यो मन्त्राः सिध्यन्तु जापिनाम्।
भवन्तु करुणाविष्टा डाकिनीराक्षसादयः॥४०॥

मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः।
मा हीनः परिभूतो वा मा भूत्कश्चिच्च दुर्मनाः॥४१॥

पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः।
नित्यं स्यात्संघसामग्री संघकार्यं च सिध्यतु॥४२॥

विवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः।
कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः॥४३॥

लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः।
भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा॥४४॥

दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा।
सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः॥४५॥

पण्डिताः संस्कृताः सन्तु लाभिनः पैण्डपातिकाः।
भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः॥४६॥

अभुक्त्वापायिकं दुःखं विना दुष्करचर्यया।
दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात्॥४७॥

पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा।
अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा॥४८॥

सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः।
यच्चिन्तयन्ति ते नाथास्तत्सत्त्वानां समृध्यतु॥४९॥

प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा।
देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः॥५०॥

जातिस्मरत्वं प्रव्रज्यामहं च प्राप्नुयां सदा।
यावत्प्रमुदिताभूमिं मञ्जुघोषपरिग्रहात्॥५१॥

येन तेनासनेनाहं यापयेयं बलान्वितः।
विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु॥५२॥

यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन।
तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः॥५३॥

दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने।
यथा चरति मञ्जुश्रीः सैव चर्या भवेन्मम॥५४॥

आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः।
तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः॥५५॥

यत्किंचिज्जगतो दुःखं तत्सर्वं मयि पच्यताम्।
बोधिसत्त्वशुभैः सर्वैर्जगत्सुखितमस्तु च॥५६॥

जगद्दुःखैकभैषज्यं सर्वसंपत्सुखाकरम्।
लाभसत्कारसहितं चिरं तिष्ठतु शासनम्॥५७॥

मञ्जुघोषं नमस्यामि यत्प्रसादान्मतिः शुभे।
कल्याणमित्रं वन्देऽहं यत्प्रसादाच्च वर्धते॥५८॥

॥बोधिचर्यावतारे परिणामनापरिच्छेदो दशमः॥

॥समाप्तोऽयं बोधिचर्यावतारः। कृतिराचार्यशान्तिदेवस्य॥


Ref:
http://www.uwest.edu/sanskritcanon/dp/index.php?q=node/107