प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्
नागार्जुन कृत
मध्यमकशास्त्रम्।

प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्।


| 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 | 21 | 22 | 23 | 24 | 25 | 26 | 27 |
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।

अनेकार्थमनानार्थमनागममनिर्गमम्॥१॥

यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम्।
देशयामास संबुद्धस्तं वन्दे वदतां वरम्॥२॥

न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः।
उत्पन्ना जातु विद्यन्ते भावाः क्कचन चन॥३॥

चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम्।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः॥४॥

न हि स्वभावो भावानां प्रत्ययादिषु विद्यते।
अविद्यमाने स्वभावे परभावो न विद्यते॥५॥

क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया।
प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत॥६॥

उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल।
यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम्॥७॥

नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते।
असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम्॥८॥

न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते॥९॥

अनालम्बन एवायं सन् धर्म उपदिश्यते।
अथानालम्बने धर्मे कुत आलम्बनं पुनः॥१०॥

अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते।
नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः॥११॥

भावानां निःस्वभावानां न सत्ता विद्यते यतः।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते॥१२॥

न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम्।
प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत्॥१३॥

अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते।
अप्रत्ययेभ्योऽपि कस्मात्फलं नाभिप्रवर्तते॥१४॥

फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम्॥१५॥

तस्मान्न प्रत्ययमयं नाप्रत्ययमयं फलम्।
संविद्यते फलाभावात्प्रत्ययाप्रत्ययाः कुतः॥१६॥


2
गतागतपरीक्षा द्वितीयं प्रकरणम्
गतागतपरीक्षा द्वितीयं प्रकरणम्।

गतं न गम्यते तावदगतं नैव गम्यते।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते॥१॥

चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः।
न गते नागते चेष्टा गम्यमाने गतिस्ततः॥२॥

गम्यमानस्य गमनं कथं नामोपपत्स्यते।
गम्यमाने द्विगमनं यदा नैवोपपद्यते॥३॥

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते॥४॥

गम्यमानस्य गमने प्रसक्तं गमनद्वयम्।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः॥५॥

द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये।
गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते॥६॥

गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते।
गमनेऽसति गन्ताथ कुत एव भविष्यति॥७॥

गन्ता न गच्छति तावदगन्ता नैव गच्छति।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति॥८॥

गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते।
गमनेन विना गन्ता यदा नैवोपपद्यते॥९॥

पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः॥१०॥

गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति।
गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति॥११॥

गते नारभ्यते गन्तुं गतं नारभ्यतेऽगते।
नारभ्यते गम्यमाने गन्तुमारभ्यते कुह॥१२॥

न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम्।
यत्रारभ्येत गमनमगते गमनं कुतः॥१३॥

गतं किं गम्यमानं किमगतं किं विकल्प्यते।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा॥१४॥

गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति॥१५॥

गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते।
गमनेन विना गन्ता यदा नैवोपपद्यते॥१६॥

न तिष्ठति गम्यमानान्न गतान्नागतादपि।
गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा॥१७॥

यदेव गमनं गन्ता स एवेति न युज्यते।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते॥१८॥

यदेव गमनं गन्ता स एव हि भवेद्यदि।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च॥१९॥

अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते।
गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते॥२०॥

एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते॥२१॥

गत्या ययोच्यते गन्ता गतिं तां स न गच्छति।
यस्मान्न गतिपूर्वोऽस्ति कश्चित्किंचिद्धि गच्छति॥२२॥

गत्या ययोच्यते गन्ता ततोऽन्यां स न गच्छति।
गती द्वे नोपपद्येते यस्मादेके प्रगच्छति॥२३॥

सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति।
नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति॥२४॥

गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति।
तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते॥२५॥


3
चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्
चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्।

दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः॥१॥

स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान्॥२॥

न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये।
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः॥३॥

नापश्यमानं भवति यदा किंचन दर्शनम्।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते॥४॥

पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम्।
व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम्॥५॥

तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम्।
द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः॥६॥

प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः॥७॥

द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम्।
नास्तीति उपादानादीनि भविष्यन्ति पुनः कथम्॥८॥

व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च॥९॥


4
स्कन्धपरीक्षा चतुर्थं प्रकरणम्
स्कन्धपरीक्षा चतुर्थं प्रकरणम्।

रूपकारणनिर्मुक्तं न रूपमुपलभ्यते।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम्॥१॥

रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते।
आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित्॥२॥

रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम्।
अकार्यकं कारणं स्यात् नास्त्यकार्यं च कारणम्॥३॥

रूपे सत्येव रूपस्य कारणं नोपपद्यते।
रूपेऽसत्येव रूपस्य कारणं नोपपद्यते॥४॥

निष्कारणं पुना रूपं नैव नैवोपपद्यते।
तस्मात् रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत्॥५॥

न कारणस्य सदृशं कार्यमित्युपपद्यते।
न कारणस्यासदृशं कार्यमित्युपपद्यते॥६॥

वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः।
सर्वेषामेव भावानां रूपेणैव समः क्रमः॥७॥

विग्रहे यः परीहारं कृते शून्यतया वदेत्।
सर्वं तस्यापरिहृतं समं साध्येन जायते॥८॥

व्याख्याने य उपालम्भं कृते शून्यतया वदेत्।
सर्वं तस्यानुपालब्धं समं साध्येन जायते॥९॥


5
धातुपरीक्षा पञ्चमं प्रकरणम्
धातुपरीक्षा पञ्चमं प्रकरणम्।

नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात्।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्॥१॥

अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित्।
असत्यलक्षणे भावे क्रमतां कुह लक्षणम्॥२॥

नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते॥३॥

लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः॥४॥

तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते।
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते॥५॥

अविद्यमाने भावे च कस्याभावो भविष्यति।
भावाभावविधर्मा च भावाभावमवैति कः॥६॥

तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम्।
आकाशम् आकाशसमा धातवः पञ्च ये परे॥७॥

अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम्॥८॥


6
रागरक्तपरीक्षा षष्ठं प्रकरणम्
रागरक्तपरीक्षा षष्ठं प्रकरणम्।

रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति॥१॥

रक्तेऽसति पुना रागः कुत एव भविष्यति।
सति वासति वा रागे रक्तेऽप्येष समः क्रमः॥२॥

सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम्॥३॥

नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह।
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति॥४॥

एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः॥५॥

पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः॥६॥

सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः।
सहभावं किमर्थं तु परिकल्पयसे तयोः॥७॥

पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि।
सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि॥८॥

पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि॥९॥

एवं रक्तेन रागस्य सिद्धिर्न सह नासह।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह॥१०॥


7
संस्कृतपरीक्षा सप्तमं प्रकरणम्
संस्कृतपरीक्षा सप्तमं प्रकरणम्।

यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी।
अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम्॥१॥

उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा॥२॥

उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम्।
अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः॥३॥

उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम्।
उत्पादोत्पादमुत्पादो मौलो जनयते पुनः॥४॥

उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि।
मौलेनाजनितस्तं ते स कथं जनयिष्यति॥५॥

स ते मौलेन जनितो मौलं जनयते यदि।
मौलः स तेनाजनितस्तमुत्पादयते कथम्॥६॥

अयमुत्पद्यमानस्ते काममुत्पादयेदिमम्।
यदीममुत्पादयितुमजातः शक्नुयादयम्॥७॥

प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा।
उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा॥८॥

प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः।
किं प्रकाशयति दीपः प्रकाशो हि तमोवधः॥९॥

कथमुत्पद्यमानेन प्रदीपेन तमो हतम्।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा॥१०॥

अप्राप्यैव प्रदीपेन यदि वा निहतं तमः।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति॥११॥

प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि।
तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम्॥१२॥

अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः॥१३॥

नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन।
उत्पद्यते तथाख्यातं गम्यमानगतागतैः॥१४॥

उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते॥१५॥

प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः।
तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च॥१६॥

यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित्।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति॥१७॥

उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम्।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः॥१८॥

अन्य उत्पादत्येनं यद्युत्पादोऽनवस्थितिः।
अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा॥१९॥

सतश्च तावदुत्पत्तिरसतश्च न युज्यते।
न सतश्चासतश्चेति पूर्वमेवोपपादितम्॥२०॥

निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते॥२१॥

न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति।
न तिष्ठति तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति॥२२॥

स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते॥२३॥

जरामरणधर्मेषु सर्वभावेषु सर्वदा।
तिष्ठन्ति कतमे भावा ये जरामरणं विना॥२४॥

स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते।
उत्पादस्य यथोत्पादो नात्मना न परात्मना॥२५॥

निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते।
तथापि निरुध्यमानं किमजातं निरुध्यते॥२६॥

स्थितस्य तावद्भावस्य निरोधो नोपपद्यते।
नास्थितस्यापि भावस्य निरोध उपपद्यते॥२७॥

तयैवावस्थयावस्था न हि सैव निरुध्यते।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते॥२८॥

यदैवं सर्वधर्माणामुत्पादो नोपपद्यते।
तदैवं सर्वधर्माणां निरोधो नोपपद्यते॥२९॥

सतश्च तावद्भावस्य निरोधो नोपपद्यते।
एकत्वे न हि भावश्च नाभावश्चोपपद्यते॥३०॥

असतोऽपि न भावस्य निरोध उपपद्यते।
न द्वितीयस्य शिरसच्छेदनं विद्यते यथा॥३१॥

न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना।
उत्पादस्य यथोत्पादो नात्मना न परात्मना॥३२॥

उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम्।
संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम्॥३३॥

यथा माया यथा स्वप्नो गन्धर्वनगरं यथा।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम्॥३४॥


8
कर्मकारकपरीक्षा अष्टमं प्रकरणम्
कर्मकारकपरीक्षा अष्टमं प्रकरणम्।

सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम्।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते॥१॥

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम्।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः॥२॥

करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत्॥३॥

हेतावसति कार्यं च कारणं च न विद्यते।
तदभावे क्रिया कर्ता करणं च न विद्यते॥४॥

धर्माधर्मौ न विद्येते क्रियादीनामसंभवे।
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते॥५॥

फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते।
मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते॥६॥

कारकः सदसद्भूतः सदसत्कुरुते न तत्।
परस्परविरुद्धं हि सच्चासच्चैकतः कुतः॥७॥

सता च क्रियते नासन्नासता क्रियते च सत्।
कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि॥८॥

नासद्भूतं न सद्भूतः सदसद्भूतमेव वा।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः॥९॥

नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा।
करोति कारकः कर्म पुर्वोक्तैरेव हेतुभिः॥१०॥

करोति सदसद्भूतो न सन्नासच्च कारकः।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः॥११॥

प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम्।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम्॥१२॥

एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः।
कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत्॥१३॥


9
पूर्वपरीक्षा नवमं प्रकरणम्
पूर्वपरीक्षा नवमं प्रकरणम्।

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।
भवन्ति यस्य प्रागेभ्यः सोऽस्तीत्येके वदन्त्युत॥१॥

कथं ह्यविद्यमानस्य दर्शनादि भविष्यति।
भावस्य तस्मात्प्रागेभ्यः सोऽस्ति भावो व्यवस्थितः॥२॥

दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यतेऽथ सः॥३॥

विनापि दर्शनादीनि यदि चासौ व्यवस्थितः।
अमून्यपि भविष्यन्ति विना तेन न संशयः॥४॥

अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते।
कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः॥५॥

सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते।
अज्यते दर्शनादीनामन्येन पुनरन्यदा॥६॥

सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते।
एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते॥७॥

द्रष्टा स एव स श्रोता स एव यदि वेदकः।
एकैकस्माद्भवेत्पूर्वं एवं चैतन्न युज्यते॥८॥

द्रष्टान्य एव श्रोतान्यो वेदकोऽन्यः पुनर्यदि।
सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत्॥९॥

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते॥१०॥

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि॥११॥

प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च।
न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः॥१२॥

10
अग्नीन्धनपरीक्षा दशमं प्रकरणम्
अग्नीन्धनपरीक्षा दशमं प्रकरणम्।

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः।
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत्॥१॥

नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति॥२॥

परत्र निरपेक्षत्वादप्रदीपनहेतुकः।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते॥३॥

तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत्।
केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा॥४॥

अन्यो न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्यदहन् पुनः।
न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान्॥५॥

अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि।
स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा॥६॥

अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात्।
अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते॥७॥

यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम्।
कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम्॥८॥

यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम्।
एवं सतीन्धनं चापि भविष्यति निरग्निकम्॥९॥

योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति।
यदि योऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः॥१०॥

योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम्।
अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते॥११॥

अपेक्ष्येन्धनमग्निर्न नानपेक्ष्याग्निरिन्धनम्।
अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम्॥१२॥

आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते।
अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः॥१३॥

इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात्।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः॥१४॥

अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः।
सर्वो निरवशेषेण सार्धं घटपटादिभिः॥१५॥

आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक्।
निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान्॥१६॥


11
पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्
पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्।

पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः।
संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम्॥१॥

नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत्।
तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः॥२॥

पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम्।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः॥३॥

पश्चाज्जातिर्यदि भवेज्जरामरणमादितः।
अहेतुकमजातस्य स्याज्जरामरणं कथम्॥४॥

न जरामरणेनैव जातिश्च सह युज्यते।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः॥५॥

यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम्॥६॥

कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन॥७॥

पूर्वा न विद्यते कोटिः संसारस्य न केवलम्।
सर्वेषामपि भावानां पूर्वा कोटिर्न द्यते॥८॥


12
दुःखपरीक्षा द्वादशमं प्रकरणम्
दुःखपरीक्षा द्वादशमं प्रकरणम्।

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम्।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते॥१॥

स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत्।
स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि॥२॥

यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः॥३॥

स्वपुद्नलकृतं दुःखं यदि दुःखं पुनर्विना।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम्॥४॥

परपुद्गलजं दुःखं यदि यस्मै प्रदीयते।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः॥५॥

परपुद्गलजं दुःखं यदि कः परपुद्गलः।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत्॥६॥

स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम्॥७॥

न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम्।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम्॥८॥

स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि।
पराकारास्वयंकारं दुःखमहेतुकं कुतः॥९॥

न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते।
बाह्यानामपि भावानां चातुर्विध्यं न विद्यते॥१०॥


13
संस्कारपरीक्षा त्रयोदशमं प्रकरणम्
संस्कारपरीक्षा त्रयोदशमं प्रकरणम्।

तन्मृषा मोषधर्म यद्भगवानित्यभाषत।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा॥१॥

तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते।
एतत्तूक्तं भगवता शून्यतापरिदीपकम्॥२॥

भावानां निःस्वभावत्वमन्यथाभावदर्शनात्।
अस्वभावो भावो नास्ति भावानां शून्यता यतः॥३॥

कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते।
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते॥४॥

तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते॥५॥

तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि।
क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति॥६॥

यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति॥७॥

शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः।
येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे॥८॥


14
संसर्गपरीक्षा चतुर्दशमं प्रकरणम्
संसर्गपरीक्षा चतुर्दशमं प्रकरणम्।

द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः।
सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत॥१॥

एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम्।
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च॥२॥

अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः॥३॥

न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते॥४॥

अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते॥५॥

यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत्।
तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः॥६॥

नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते।
अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा॥७॥

न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते।
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते॥८॥


15
स्वभावपरीक्षा पञ्चदशमं प्रकरणम्
स्वभावपरीक्षा पञ्चदशमं प्रकरणम्।

न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः।
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत्॥१॥

स्वभावः कृतको नाम भविष्यति पुनः कथम्।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च॥२॥

कुतः स्वभावस्याभावे परभावो भविष्यति।
स्वभावः परभावस्य परभावो हि कथ्यते॥३॥

स्वभावपरभावाभ्यामृते भावः कुतः पुनः।
स्वभावे परभावे वा सति भावो हि सिध्यति॥४॥

भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः॥५॥

स्वभावं परभावं च भावं चाभावमेव च।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने॥६॥

कात्यायनाववादे चास्तीति नास्तीति चोभयम्।
प्रतिषिद्धं भगवता भावाभावविभाविना॥७॥

यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता।
प्रकृतेरन्यथाभावो न हि जातूपपद्यते॥८॥

प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति।
प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति॥९॥

अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम्।
तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः॥१०॥

अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम्।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते॥११॥


16
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम्
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम्।

संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते।
संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः॥१॥

पुद्गलः संसरति चेत्स्कन्धायतनधातुषु।
पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति॥२॥

उपादानादुपादानं संसरन् विभवो भवेत्।
विभवश्चानुपादानः कः स किं संसरिष्यति॥३॥

संस्काराणां न निर्वाणं कथंचिदुपपद्यते।
सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते॥४॥

न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते॥५॥

बन्धनं चेदुपादानं सोपादानो न बध्यते।
बध्यते नानुपादानः किमवस्थोऽथ बध्यते॥६॥

बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि।
न चास्ति तत् शेषमुक्तं गम्यमानगतागतैः॥७॥

बद्धो न मुच्यते तावदबद्धो नैव मुच्यते।
स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे॥८॥

निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति।
इति येषां ग्रहस्तेषामुपादानमहाग्रहः॥९॥

न निर्वाणसमारोपो न संसारापकर्षणम्।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते॥१०॥


17
कर्मफलपरीक्षा सप्तदशमं प्रकरणम्
कर्मफलपरीक्षा सप्तदशमं प्रकरणम्।

आत्मसंयमकं चेतः परानुग्राहकं च यत्।
मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च॥१॥

चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा।
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः॥२॥

तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम्।
चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम्॥३॥

वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा॥४॥

परिभोगान्वयं पुण्यमपुण्यं च तथाविधम्।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः॥५॥

तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात्।
निरुद्धं चेन्निरूद्धं सत्किं फलं जनयिष्यति॥६॥

योऽङ्कुरप्रभृतिर्बीजात्संतानोऽभिप्रवर्तते।
ततः फलमृते बीजात्स च नाभिप्रवर्तते॥७॥

बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः।
बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्॥८॥

यस्तस्माच्चित्तसंतानश्चेतसोऽभिप्रवर्तते।
ततः फलमृते चित्तात्स च नाभिप्रवर्तते॥९॥

चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः।
कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्॥१०॥

धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च॥११॥

बहवश्च महान्तश्च दोषाः स्युरपि कल्पना।
यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते॥१२॥

इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम्॥१३॥

पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः॥१४॥

प्रहाणतो न प्रहेयो भावनाहेय एव वा।
तस्मादविप्रणाशेन जायते कर्मणां फलम्॥१५॥

प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः॥१६॥

सर्वेषां विषभागानां सभागानां च कर्मणाम्।
प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः॥१७॥

कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः।
द्विप्रकारस्य सर्वस्य विपक्केऽपि च तिष्ठति॥१८॥

फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत्॥१९॥

शून्यता च न चोच्छेदः संसारश्च न शाश्वतम्।
कर्मणोऽविप्रणाशश्च धर्मो बुद्धेन देशितः॥२०॥

कर्म नोत्पद्यते कस्मात् निःस्वभावं यतस्ततः।
यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति॥२१॥

कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम्।
अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम्॥२२॥

अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते॥२३॥

व्यवहारा विरुध्यन्ते सर्व एव न संशयः।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते॥२४॥

तद्विपक्वविपाकं च पुनरेव विपक्ष्यति।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि॥२५॥

कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम्॥२६॥

कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा॥२७॥

अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः।
स भोक्ता स च न कर्तुरन्यो न च स एव सः॥२८॥

न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम्।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः॥२९॥

कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम्।
असत्यथ फले भोक्ता कुत एव भविष्यति॥३०॥

यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः॥३१॥

तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम्।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा॥३२॥

क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः॥३३॥


18
आत्मपरीक्षा अष्टादशमं प्रकरणम्
आत्मपरीक्षा अष्टादशमं प्रकरणम्।

आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत्।
स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः॥१॥

आत्मन्यसति चात्मीयं कुत एव भविष्यति।
निर्ममो निरहंकारः शमादात्मात्मनीनयोः॥२॥

निर्ममो निरहंकारो यश्च सोऽपि न विद्यते।
निर्ममं निरहंकारं यः पश्यति न पश्यति॥३॥

ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेव च।
निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः॥४॥

कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः।
ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते॥५॥

आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम्।
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम्॥६॥

निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता॥७॥

सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च।
नैवातथ्यं नैव तथ्यमेतद्बुद्धानुशासनम्॥८॥

अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम्॥९॥

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम्॥१०॥

अनेकार्थमनानार्थमनुच्छेदमशाश्वतम्।
एतत्तल्लोकनाथानां बुद्धानां शासनामृतम्॥११॥

संबुद्धानामनुत्पादे श्रावकाणां पुनः क्षये।
ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते॥१२॥


19
कालपरीक्षा एकोनविंशतितमं प्रकरणम्
कालपरीक्षा एकोनविंशतितमं प्रकरणम्।

प्रत्युत्पन्नोऽनागतश्च यद्यतीतमपेक्ष्य हि।
प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यतः॥१॥

प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि।
प्रत्युत्पन्नोऽनागतश्च स्यातां कथमपेक्ष्य तम्॥२॥

अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः।
प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते॥३॥

एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत्॥४॥

नास्थितो गृह्यते कालः स्थितः कालो न विद्यते।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम्॥५॥

भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः।
न च कश्चन भावोऽस्ति कुतः कालो भविष्यति॥६॥


20
सामग्रीपरीक्षा विंशतितमं प्रकरणम्
सामग्रीपरीक्षा विंशतितमं प्रकरणम्।

हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्॥१॥

हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्॥२॥

हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम्।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते॥३॥

हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम्।
हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः॥४॥

हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते।
यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत्॥५॥

हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते।
हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत्॥६॥

फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः।
एककालौ प्रसज्येते जनको यश्च जन्यते॥७॥

पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि।
हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत्॥८॥

निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत्।
पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते॥९॥

जनयेत्फलमुत्पन्नं निरुद्धोऽस्तंगतः कथम्।
तिष्ठन्नपि कथं हेतुः फलेन जनयेद्वृतः॥१०॥

अथावृतः फलेनासौ कतमज्जनयेत्फलम्।
न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम्॥११॥

नातीतस्य ह्यतीतेन फलस्य सह हेतुना।
नाजातेन न जातेन संगतिर्जातु विद्यते॥१२॥

न जातस्य ह्यजातेन फलस्य सह हेतुना।
नातीतेन न जातेन संगतिर्जातु विद्यते॥१३॥

नाजातस्य हि जातेन फलस्य सह हेतुना।
नाजातेन न नष्टेन संगतिर्जातु विद्यते॥१४॥

असत्यां संगतौ हेतुः कथं जनयते फलम्।
सत्यां वा संगतौ हेतुः कथं जनयते फलम्॥१५॥

हेतुः फलेन शून्यश्चेत्कथं जनयते फलम्।
हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम्॥१६॥

फलं नोत्पत्स्यतेऽशून्यमशून्यं न निरोत्स्यते।
अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति॥१७॥

कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते।
शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते॥१८॥

हेतोः फलस्य चैकत्वं न हि जातूपपद्यते।
हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते॥१९॥

एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः।
पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना॥२०॥

फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति।
फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति॥२१॥

न चाजनयमानस्य हेतुत्वमुपपद्यते।
हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति॥२२॥

न च प्रत्ययहेतूनामियमात्मानमात्मना।
या सामग्री जनयते सा कथं जनयेत्फलम्॥२३॥

न सामग्रीकृतं फलं नासामग्रीकृतं फलम्।
अस्ति प्रत्ययसामग्री कुत एव फलं विना॥२४॥


21
संभवविभवपरीक्षा एकविंशतितमं प्रकरणम्
संभवविभवपरीक्षा एकविंशतितमं प्रकरणम्।

विना वा सह वा नास्ति विभवः संभवेन वै।
विना वा सह वा नास्ति संभवो विभवेन वै॥१॥

भविष्यति कथं नाम विभवः संभवं विना।
विनैव जन्म मरणं विभवो नोद्भवं विना॥२॥

संभवेनैव विभवः कथं सह भविष्यति।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते॥३॥

भविष्यति कथं नाम संभवो विभवं विना।
अनित्यता हि भावेषु न कदाचिन्न विद्यते॥४॥

संभवो विभवेनैव कथं सह भविष्यति।
न जन्ममरणं चैव तुल्यकालं हि विद्यते॥५॥

सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते॥६॥

क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च॥७॥

संभवो विभवश्चैव विना भावं न विद्यते।
संभवं विभवं चैव विना भावो न विद्यते॥८॥

संभवो विभवश्चैव न शून्यस्योपपद्यते।
संभवो विभवश्चैव नाशून्यस्योपपद्यते॥९॥

संभवो विभवश्चैव नैक इत्युपपद्यते।
संभवो विभवश्चैव न नानेत्युपपद्यते॥१०॥

दृश्यते संभवश्चैव विभवश्चैव ते भवेत्।
दृश्यते संभवश्चैव मोहाद्विभव एव च॥११॥

न भावाज्जायते भावो भावोऽभावान्न जायते।
नाभावाज्जायतेऽभावोऽभावो भावान्न जायते॥१२॥

न स्वतो जायते भावः परतो नैव जायते।
न स्वतः परतश्चैव जायते, जायते कुतः॥१३॥

भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम्।
प्रसज्यते स भावो हि नित्योऽनित्योऽथ वा भवेत्॥१४॥

भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम्।
उदयव्ययसंतानःफलहेत्वोर्भवः स हि॥१५॥

उदयव्ययसंतानः फलहेत्वोर्भवः स चेत्।
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते॥१६॥

सद्भावस्य स्वभावेन नासद्भावश्च युज्यते।
निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः॥१७॥

चरमे न निरुद्धे च प्रथमो युज्यते भवः।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः॥१८॥

निरुध्यमाने चरमे प्रथमो यदि जायते।
निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत्॥१९॥

न चेन्निरुध्यमानश्च जायमानश्च युज्यते।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते॥२०॥

एवं त्रिष्वपि कालेषु न युक्ता भवसंततिः।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः॥२१॥


22
तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्
तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्।

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः।
तथागतः स्कन्धवान्न कतमोऽत्र तथागतः॥१॥

बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः।
स्वभावतश्च यो नास्ति कुतः स परभावतः॥२॥

प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते।
यश्चानात्मा स च कथं भविष्यति तथागतः॥३॥

यदि नास्ति स्वभावश्च परभावः कथं भवेत्।
स्वभावपरभावाभ्यामृते कः स तथागतः॥४॥

स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः।
स इदानीमुपादद्यादुपादाय ततो भवेत्॥५॥

स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः।
यश्च नास्त्यनुपादाय स उपादास्यते कथम्॥६॥

न भवत्यनुपादत्तमुपादानं च किंचन।
न चास्ति निरुपादानः कथंचन तथागतः॥७॥

तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा।
उपादानेन स कथं प्रज्ञप्येत तथागतः॥८॥

यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते।
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः॥९॥

एवं शून्यमुपादानमुपादाता च सर्वशः।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः॥१०॥

शून्यमिति न वक्तव्यमशून्यमिति वा भवेत्।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते॥११॥

शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम्।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम्॥१२॥

येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागतः।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत्॥१३॥

स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते।
परं निरोधाद्भवति बुद्धो न भवतीति वा॥१४॥

प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम्।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम्॥१५॥

तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत्।
तथागतो निःस्वभावो निःस्वभावमिदं जगत्॥१६॥


23
विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्
विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्।

संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि॥१॥

शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये।
ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः॥२॥

आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम्॥३॥

कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति।
कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित्॥४॥

स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा।
स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा॥५॥

स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः।
प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान्॥६॥

रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम्।
वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते॥७॥

रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः॥८॥

अशुभं वा शुभं वापि कुतस्तेषु भविष्यति।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च॥९॥

अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते॥१०॥

अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते॥११॥

अविद्यमाने च शुभे कुतो रागो भविष्यति।
अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति॥१२॥

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः॥१३॥

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः॥१४॥

येन गृण्हाति यो ग्राहो ग्रहीता यच्च गृह्यते।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते॥१५॥

अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः॥१६॥

न चापि विपरीतस्य संभवन्ति विपर्ययाः।
न चाप्यविपरीतस्य संभवन्ति विपर्ययाः॥१७॥

न विपर्यस्यमानस्य संभवन्ति विपर्ययाः।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः॥१८॥

अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः॥१९॥

न स्वतो जायते भावः परतो नैव जायते।
न स्वतः परतश्चेति विपर्ययगतः कुतः॥२०॥

आत्मा च शुचि नित्यं च सुखं च यदि विद्यते।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः॥२१॥

नात्मा च शुचि नित्यं च सुखं च यदि विद्यते।
अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते॥२२॥

एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात्।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते॥२३॥

यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित्।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति॥२४॥

यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित्।
कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति॥२५॥


24
आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्
आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्।

यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते॥१॥

परिज्ञा च प्रहाणं च भावना साक्षिकर्म च।
चतुर्णामार्यसत्यानामभावान्नोपपद्यते॥२॥

तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः॥३॥

संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः।
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते॥४॥

धर्मे चासति संघे च कथं बुद्धो भविष्यति।
एवं त्रीण्यपि रत्नानि ब्रूवाणः प्रतिबाधसे॥५॥

शून्यतां फलसद्भावमधर्मं धर्ममेव च।
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे॥६॥

अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम्।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे॥७॥

द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥८॥

येऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने॥९॥

व्यवहारमनाश्रित्य परमार्थो न देश्यते।
परमार्थमनागम्य निर्वाणं नाधिगम्यते॥१०॥

विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम्।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता॥११॥

अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः।
धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम्॥१२॥

शून्यतायामधिलयं यं पुनः कुरुते भवान्।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते॥१३॥

सर्वं च युज्यते तस्य शून्यता यस्य युज्यते।
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते॥१४॥

स त्वं दोषानात्मनीनानस्मासु परिपातयन्।
अश्वमेवाभिरूढः सन्नश्वमेवासि विस्मृतः॥१५॥

स्वभावाद्यदि भावानां सद्भावमनुपश्यसि।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि॥१६॥

कार्यं च कारणं चैव कर्तारं करणं क्रियाम्।
उत्पादं च निरोधं च फलं च प्रतिबाधसे॥१७॥

यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा॥१८॥

अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते।
यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते॥१९॥

यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते॥२०॥

अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति।
अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते॥२१॥

स्वभावतो विद्यमानं किं पुनः समुदेष्यते।
तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः॥२२॥

न निरोधः स्वभावेन सतो दुःखस्य विद्यते।
स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे॥२३॥

स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते॥२४॥

यदा दुःखं समुदयो निरोधश्च न विद्यते।
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति॥२५॥

स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम्।
परिज्ञानं ननु किल स्वभावः समवस्थितः॥२६॥

प्रहाणसाक्षात्करणे भावना चैवमेव ते।
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च॥२७॥

स्वभावेनानधिगतं यत्फलं तत्पुनः कथम्।
शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः॥२८॥

फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः।
संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः॥२९॥

अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते।
धर्मे चासति संघे च कथं बुद्धो भविष्यति॥३०॥

अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते॥३१॥

यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि।
न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति॥३२॥

न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति।
किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि॥३३॥

विना धर्ममधर्मं च फलं हि तव विद्यते।
धर्माधर्मनिमित्तं च फलं तव न विद्यते॥३४॥

धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम्।
धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम्॥३५॥

सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे।
यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे॥३६॥

न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया।
कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः॥३७॥

अजातमनिरुद्धं च कूटस्थं च भविष्यति।
विचित्राभिरवस्थाभिः स्वभावे रहितं जगत्॥३८॥

असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च।
सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते॥३९॥

यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति।
दुःखं समुदयं चैव निरोधं मार्गमेव च॥४०॥


25
निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्
निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्।

यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते॥१॥

यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते॥२॥

अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम्।
अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते॥३॥

भावस्तावन्न निर्वाणं जरामरणलक्षणम्।
प्रसज्येतास्ति भावो हि न जरामरणं विना॥४॥

भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत्।
नासंस्कृतो हि विद्यते भावः क्वचन कश्चन॥५॥

भावश्च यदि निर्वाणमनुपादाय तत्कथम्।
निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते॥६॥

यदि भावो न निर्वाणमभावः किं भविष्यति।
निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते॥७॥

यद्यभावश्च निर्वाणमनुपादाय तत्कथम्।
निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते॥८॥

य आजवंजवीभाव उपादाय प्रतीत्य व।
सोऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते॥९॥

प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च।
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते॥१०॥

भवेदभावो भावश्च निर्वाणमुभयं यदि।
भवेदभावो भावश्च मोक्षस्तच्च न युज्यते॥११॥

भवेदभावो भावश्च निर्वाणमुभयं यदि।
नानुपादाय निर्वाणमुपादायोभयं हि तत्॥१२॥

भवेदभावो भावश्च निर्वाणमुभयं कथम्।
असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ॥१३॥

भवेदभावो भावश्च निर्वाणे उभयं कथम्।
[तयोरेकत्र नास्तित्वमालोकतमसोर्यथा]॥१४॥

नैवाभावो नैव भावो निर्वाणमिति याञ्जना।
अभावे चैव भावे च सा सिद्धे सति सिध्यति॥१५॥

नैवाभावो नैव भावो निर्वाणं यदि विद्यते।
नैवाभावो नैव भाव इति केन तदज्यते॥१६॥

परं निरोधाद्भगवान् भवतीत्येव नोह्यते।
न भवत्युभयं चेति नोभयं चेति नोह्यते॥१७॥

तिष्ठमानोऽपि भगवान् भवतीत्येव नोह्यते।
न भवत्युभयं चेति नोभयं चेति नोह्यते॥१८॥

न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम्।
न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम्॥१९॥

निर्वाणस्य च या कोटिः कोटिः संसरणस्य च।
न तयोरन्तरं किंचित्सुमूक्ष्ममपि विद्यते॥२०॥

परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः।
निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः॥२१॥

शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत्।
किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम्॥२२॥

किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम्।
अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः॥२३॥

सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः।
न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः॥२४॥


26
द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम्
द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम्।

पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः॥१॥

विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ।
संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते॥२॥

निषिक्ते नामरूपे तु षडायतनसंभवः।
षडायतनमागम्य संस्पर्शः संप्रवर्तते॥३॥

चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते॥४॥

संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम्।
स्पर्शः सः तस्मात्स्पर्शाच्च वेदना संप्रवर्तते॥५॥

वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते।
तृष्यमाण उपादानमुपादत्ते चतुर्विधम्॥६॥

उपादाने सति भव उपादातुः प्रवर्तते।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः॥७॥

पञ्च स्कन्धाः स च भवः भवाज्जातिः प्रवर्तते।
जरामरणदुःखादि शोकाः सपरिदेवनाः॥८॥

दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते।
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः॥९॥

संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात्॥१०॥

अविद्यायां निरुद्धायां संस्काराणामसंभवः।
अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात्॥११॥

तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते।
दुःखस्कन्धः केवलोऽयमेवं सम्यङ् निरुध्यते॥१२॥


27
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्।

अभूमतीतमध्वानं नाभूमिति च दृष्टयः।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः॥१॥

दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः॥२॥

अभूमतीतमध्वानमित्येतन्नोपपद्यते।
यो हि जन्मसु पूर्वेषु स एव न भवत्ययम्॥३॥

स एवात्मेति तु भवेदुपादानं विशिष्यते।
उपादानविनिर्मुक्त आत्मा ते कतमः पुनः॥४॥

उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति।
स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः॥५॥

न चोपादानमेवात्मा व्येति तत्समुदेति च।
कथं हि नामोपादानमुपादाता भविष्यति॥६॥

अन्यः पुनरुपादानादात्मा नैवोपपद्यते।
गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते॥७॥

एवं नान्य उपादानान्न चोपादानमेव सः।
आत्मा नास्त्यनुपादानः नापि नास्त्येष निश्चयः॥८॥

नाभूमतीतमध्वानमित्येतन्नोपपद्यते।
यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम्॥९॥

यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत्।
तथैव च स संतिष्ठेत्तत्र जायेत वामृतः॥१०॥

उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम्।
अन्येन परिभोगः स्यादेवमादि प्रसज्यते॥११॥

नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः॥१२॥

एवं दृष्टिरतीते या नाभूमहमभूमहम्।
उभयं नोभयं चेति नैषा समुपपद्यते॥१३॥

अध्वन्यनागते किं नु भविष्यामीति दर्शनम्।
न भविष्यामि चेत्येतदतीतेनाध्वना समम्॥१४॥

स देवः स मनुष्यश्चेदेवं भवति शाश्वतम्।
अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम्॥१५॥

देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत्।
देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते॥१६॥

दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः।
अशाश्वतं शाश्वतं च भवेतच्च न युज्यते॥१७॥

अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि।
सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि॥१८॥

कुतश्चिदागतः कश्चित्किंचिद्नच्छेत्पुनः क्वचित्।
यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः॥१९॥

नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः।
शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः॥२०॥

अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत्।
अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत्॥२१॥

स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव।
प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते॥२२॥

पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी।
स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत्॥२३॥

पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी।
स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोकोऽनन्तो भवेदथ॥२४॥

अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान्।
स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते॥२५॥

कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते।
न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते॥२६॥

उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते।
न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते॥२७॥

अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि।
सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि॥२८॥

अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः।
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः॥२९॥

सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत्।
अनुकम्पामुपादाय तं नमस्यामि गौतमम्॥३०॥




Ref:
http://www.uwest.edu/sanskritcanon/dp/index.php?q=node/107